श्री अनन्तपद्मनाभ मङ्गल स्तोत्रम्
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री शेषशायिने अनन्तपद्मनाभाय मङ्गलम् ॥१॥
स्यानन्दूरपुरीभाग्यभव्यरूपाय विष्णवे ।
आनन्दसिन्धवे अनन्तपद्मनाभाय मङ्गलम् ॥२॥
हेमकूटविमानान्तः भ्राजमानाय हारिणे ।
हरिलक्ष्मीसमेताय पद्मनाभाय मङ्गलम् ॥३॥
श्रीवैकुण्ठविरक्ताय शङ्खतीर्थाम्बुधेः तटे ।
रमया रममाणाय पद्मनाभाय मङ्गलम् ॥४॥
अशेष चिदचिद्वस्तुशेषिणे शेषशायिने ।
अशेषदायिने अनन्तपद्मनाभाय मङ्गलम् ॥५॥
यत्पदं परमं सेव्यं सदा पश्यन्ति सूरयः ।
सेनापतिमुखास्तस्मै पद्मनाभाय मङ्गलम् ॥६॥
चुतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
समस्तपरिवाराय पद्मनाभाय मङ्गलम् ॥७॥
दिवाकरयतीशानयोगिहृत्पद्मभानवे ।
परस्मै ब्रह्मणे अनन्तपद्मनाभाय मङ्गलम् ॥८॥
पराङ्कुशप्रबन्धोक्तिप्रथिताय परमात्मने ।
पूर्णाय महते अनन्तपद्मनाभाय मङ्गलम् ॥९॥
वञ्चिभूपशिरोरत्नरश्मिनीराजिताङ्घ्रये ।
वाञ्छिताखिलदायास्तु पद्मनाभाय मङ्गलम् ॥१०॥
सर्वावयवसौन्दर्य सौवर्णसुषमा जुषे ।
सदा सम्मोहनायास्तु पद्मनाभाय मङ्गलम् ॥११॥
योगेश्वराय कृष्णाय नरसिंहाय योगिने ।
योगमुद्राभिरामाय पद्मनाभाय मङ्गलम् ॥१२॥
अनन्तपुरनाथाय निरन्तरदयामुचे ।
अनन्तपद्मनाभाय नित्यश्रीः नित्यमङ्गलम् ॥१३॥
इति श्री अनन्तपद्मनाभ मङ्गल स्तोत्रम् सम्पूर्णम् ।