(12 Names Hanuman) Anjaneya Dwadash Nama Stotram Sanskrit Lyrics – आञ्जनेय द्वादश नाम स्तोत्र (हनुमान जी के १२ नाम)

(12 Names Hanuman) Anjaneya Dwadash Nama Stotram Sanskrit Lyrics – आञ्जनेय द्वादश नाम स्तोत्र (हनुमान जी के १२ नाम)

Share:
हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ १ ॥
उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥
द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयं नास्ति सर्वत्र विजयी भवेत् ॥ ३ ॥
Share
Now Playing