(भैरवताण्डवस्तोत्रम् अथवा कष्टहरं श्रीभैरवाष्टकस्तोत्रम्)
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ॥
अथ श्रीभैरवताण्डवस्तोत्रम् ।
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं
लोकं सुखयन्तं विलसितसन्तं प्रकटितदन्तं नृत्यकरम् ।
डमरुध्वनिशङ्खं(मन्तं) तरलवतंसं(तरं तं ) मधुरहसन्तं लोकभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥
चर्चितसिन्दूरं रणभूविदूरं(रणभुवि शूरं) दुष्टविदूरं श्रीनिकरं
किङ्किणिगणरावं त्रिभुवनपावं खर्प्प(र्प)रसावं पुण्यभरम् ।
करुणामयवेषं सकलसुरेशं मुक्तसुकेशं पापहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ २॥
कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं
कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं(छगं तं) शुद्धतरम् ।
गतिनिन्दितकेशं(हंसं) नर्तनदेशं(नरनुतहंसं) स्वच्छकशं(शुकं) सन्मुण्डकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ३॥
कठिनस्तनकुम्भं सुकृतसुलम्भं कालीडिम्भं खड्गधरं
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।
तनुभाजितशेषं विलमसुदेशं सर्वसुरेशं प्रीतिन(प)रं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ४॥
ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं
सुखिताखिललोकं परिहृतशोकं शुद्धविलोकं पुष्टिकरम् ।
वरदाभयहारं तरलिततारं क्षुद्रविदा(हा)रं तुष्टिकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ५॥
सकलायुधभारं विजनविहारं सुश्रविशारं(विश्वविसारं) भ्रष्टमलं
शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।
पदनूपूरशिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्ठहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ६॥
मदयुतसंरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।
कुटिलभ्रुकुटीकं ज्वरधननी(वी)कं विसरन्ध्रीकं प्रेमभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ७॥
परिनिर्जितकामं विलसितवामं योगिजनाभं(परमभिरामं) योगेशं
बहुमद्यपनाथं गीतसुगाथं कृष्टसुनाथं वीरेशम् ।
कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं दत्तवरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ८॥
इति श्रीभैरवताण्डवस्तोत्रं अथवा कष्टहरं श्रीभैरवाष्टकस्तोत्रं सम्पूर्णम् ॥
← Previous
भैरव सर्व फलप्रद स्तोत्र सुरक्षा, सफलता, ज्ञान दायक | Bhairav Sarva Phalaprada Stotram Sanskrit Lyrics For Wish-Fulfillment
Next →
स्वर्णाकर्षण भैरव मंत्रमय स्तोत्र धन वर्षा,बाधा निवारण हेतु - Swarnakarshan Bhairav Mantramay Stotra For Money & Success
Can You Find All Sacred Words?
8 Names of Bhairava (अष्टभैरव के नाम) Word Search
▶ Play Now