श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः
दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ १ ॥
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ २ ॥
शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ ३ ॥
सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ ४ ॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ ५ ॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ ६ ॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ ७ ॥
जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ ८ ॥
जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥९ ॥