Shri Gayatri Hridayam Stotram Sanskrit Lyrics – श्री गायत्री हृदयं स्तोत्र

Shri Gayatri Hridayam Stotram Sanskrit Lyrics – श्री गायत्री हृदयं स्तोत्र

Share:
॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥
नारद उवाच ।
भगवन्देवदेवेश भूतभव्य जगत्प्रभो  ।
कवचं च श‍ृतं दिव्यं गायत्रीमन्त्रविग्रहम्  ॥ १॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम्  ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम्  ॥ २॥
श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम्  ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम्  ॥ ३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम्  ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः  ॥ ४॥
पिण्डब्रह्मण्डयोरैक्याद्भावयेत्स्वतनौ तथा  ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः  ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः  ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः  ॥ ६॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत्  ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः  ॥ ७॥
गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी  ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात्  ।
आसने विजने देशे ध्यायेदेकाग्रमानसः  ॥ ८॥
अथार्थन्यासः ।  द्यौमूर्ध्नि दैवतम् ।
दन्तपङ्क्तावश्विनौ ।  उभे सन्ध्ये चौष्ठौ ।
मुखमग्निः ।  जिह्वा सरस्वती ।  ग्रीवायां तु बृहस्पतिः ।
स्तनयोर्वसवोऽष्टौ ।  बाह्वोर्मरुतः ।  हृदये पर्जन्यः ।
आकाशमुदरम् ।  नाभावन्तरिक्षम् ।  कट्योरिन्द्राग्नी ।
जघने विज्ञानघनः प्रजापतिः ।  कैलासमलये ऊरू ।
विश्वेदेवा जान्वोः ।  जङ्घायां कौशिकः ।  गुह्यमयने ।
ऊरू पितरः ।  पादौ पृथिवी ।  वनस्पतयोङ्गुलीषु ।
ऋषयो रोमाणि ।  नखानि मुहूर्तानि ।  अस्थिषु ग्रहाः ।
असृङ्मांसमृतवः ।  संवत्सरा वै निमिषम् ।
अहोरात्रावादित्यश्चन्द्रमाः ।
प्रवरं दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ।
ॐ तत्सवितुर्वरेण्याय नमः ।  ॐ तत्पूर्वाजयाय नमः ।
तत्प्रातरादित्याय नमः ।  तत्प्रातरादित्यप्रतिष्ठायै नमः ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
सायंप्रातरधीयानः अपापो भवति ।
सर्वतीर्थेषु स्नातो भवति ।  सर्वैर्देवैर्ज्ञातो भवति ।
अवाच्यवचनात्पूतो भवति ।  अभक्ष्यभक्षणात्पूतो भवति ।
अभोज्यभोजनात्पूतो भवति ।  अचोष्यचोषणात्पूतो भवति ।
असाध्यसाधनात्पूतो भवति ।  दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ।
पङ्क्तिदूषणात्पूतो भवति ।  अमृतवचनात्पूतो भवति ।
अथाब्रह्मचारी ब्रह्मचारी भवती ।
अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ।
षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति ।
अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् ।  तस्य सिद्धिर्भवति ।
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः
प्रमुच्यत इति ।  ब्रह्मलोके महीयते ।
इत्याह भगवान् श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीहृदयं नाम चतुर्थोऽध्यायः ।
Share
Now Playing