मातः श्रीललिते प्रसीद !
लौहित्यनिर्जित जपाकुसुमानुरागां
पाशाङ्कुशौ धनुरिषूनपि धारयन्तीम् ।
ताम्रेक्षणामरुणमाल्यविशेषभूषां
ताम्बूलपूरितमुखीं त्रिपुरां नमामि ॥ १॥
मधुरान्मधुरा महितान्महिता
मृदुलान्मृदुला सुलभात्सुलभा ।
अरुणादरुणा सदयात्सदया
ललिताल्ललिता ललिताऽवतु माम् ॥ २॥
ललितं चरणसरोजे ललिततरं वदनशीतरुचिबिम्बे ।
ललिततमं स्मितरोचिषि ललिताख्यं वसतु मे पुरतः ॥ ३॥
त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः ।
त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ ४॥
त्वयार्जितमिदं सर्वं तव स्वं परमेश्वरि ।
त्वदधीनं करोमीह त्वदर्थे तन्नियोजये ॥ ५॥
तव देवि वशे वर्ते तवाज्ञामेव पालयन् ।
तव नामानि गणयन् त्वयि लीये गृहाण माम् ॥ ६॥
एषा भक्त्या तव विरचिता या देवि सेवा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७॥
श्रीललितासहस्रनामस्तोत्रम्
(उपोद्धाताख्या प्रथमा कला)
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥
वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् ।
रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ २॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ ३॥
त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् ।
त्रिगुणैर्देवैर्विनुतामेकान्तां बिन्दुगां महारम्भाम् ॥ १॥
ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः ।
परिभाषा भाष्यन्ते सङ्क्षेपात्कौलिकप्रमोदाय ॥ २॥
पञ्चाशदेक आदौ नामसु सार्धद्व्यशीतिशतम् ।
षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः ॥ ३॥
दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम् ।
मुनिसूतहयाम्बाश्वोक्तिर्ध्यानमेकेन ॥ ४॥ BSR part 2 NR AchArya
अगस्त्य उवाच -
अश्वानन महाबुद्धे सर्वशास्त्रविशारद ।
कथितं ललितादेव्याः चरितं परमाद्भुतम् ॥ १॥
पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ २॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम् ।
श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ ३॥
षोढान्यासादयो देव्याः न्यासखण्डे समीरिताः ।
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ ४॥
महायागाक्रमश्चापि पूजाखण्डे समीरिताः ।
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ ५॥
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः ॥ ६॥
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् ।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ ७॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।
न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ ८॥
तत्र मे संशयो जातो हयग्रीव दयानिधे ।
किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ ९॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ १०॥
सूत उवाच -
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ ११॥
श्रीहयग्रीव उवाच -
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्रां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ १२॥
रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा ।
पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३॥
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४॥
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्त्ताय श्रीविद्याराजवेदिने ॥ १५॥
उपासकाय शुद्धाय देयं नामसहस्रकम् ।
यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ १६॥
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने ।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ १७॥
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा ।
श्रीविद्योपासकानां च यथा देवः परः शिवः ॥ १८॥
तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् ।
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ १९॥
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ २०॥
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।
पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ २१॥
सदा प्रसादं कुरुते तस्य सिंहासनेश्वरी ।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ २२॥
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥ २३॥
साङ्गार्चने साङ्गजपे यत्फलं तदाप्नुयात् ।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ २४॥
इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ २५॥
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ २६॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ २७॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् ।
देव्युवाच -
वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ २८॥
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ २९॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः ।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ ३०॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ ३१॥
हयग्रीव उवाच -
इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया ।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ ३२॥
रहस्यं नामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ ३३॥
स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव ।
सेवार्थमागतास्तत्र तु वाणीस्रष्टुकोटयः ॥ ३४॥
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ ३५॥
मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यास्समागताः ।
शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥ ३६॥
दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ ३७॥
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् ।
ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ ३८॥
उत्थाय वशिनीमुख्या बद्धांजलिपुटास्तदा ।
अस्तुवन्नामसाहस्रैः स्वकृतैर्लंलिताम्बिकाम् ॥ ३९॥
श्रुत्वा स्तवं प्रसन्नाऽभूल्ल्लिता परमेश्वरी ।
ते सर्वे विस्मयं जग्भुर्ये तत्र सदसि स्थिताः ॥ ४०॥
ततः प्रोवाच ललिता सदस्यान् देवतागणान् ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ ४१॥
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः ।
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ ४२॥
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ।
इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ ४३॥
स मे प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम् ।
श्रीचक्रे मां सदाभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ ४४॥
पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ।
मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ ४५॥
कीर्तयेन्नामसहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान् कामांल्लभते नात्र संशयः ॥ ४६॥
तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् ।
श्रीहयग्रीव उवाच -
इति श्रीललितेशानी शास्ति देवान्सहानुगान् ॥ ४७॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः ।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ ४८॥
पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ ४९॥
आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर ।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ ५०॥
इति ललितासहस्रनाम्न्युपोद्धातप्रकरणं समाप्तम् ॥
॥ न्यासः ॥
अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादयो वाग्देवता ऋषयः ।
अनुष्टुप् छन्दः । श्रीललिता परमेश्वरी देवता ।
श्रीमद्बाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः ।
शक्तिकूटेति कीलकम् । ध्यानम् ।
मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा
चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।
॥ करन्यासः ॥
ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । सौः अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः । ऐं करतलकरपृष्ठाभ्यां नमः ।
॥ अङ्गन्यासः ॥
ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् ।
सौः कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । ऐं अस्त्राय फट् ।
भूर्भवस्सुवरोमिति दिग्बन्धः ।
॥ ध्यानम् ॥
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्
तारा नायक शेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सतत मभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्व सम्पत्प्रदात्रीम् ॥
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥
लमित्यादिपञ्चपूजा
``लं'' पृथिवीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।
``हं'' आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।
``यं'' वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।
``रं'' वह्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।
``वं'' अमृततत्त्वामिकायै श्रीललितादेव्यै अमृतं महानैवेद्यं
परिकल्पयामि ।
``सं'' सर्वतत्त्वात्मिकायै श्रीललितादेव्यै सर्वोपचारपूजां
परिकल्पयामि ।
(ततः पारायणं कुर्यात् ।)
॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥
(द्वितीया तापिनी कला १-१०० नामानि)
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १॥
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥ ३॥
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ४॥
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥ ५॥
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥ ६॥
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ॥ ७॥
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ॥ ८॥
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ९॥ दशनच्छदा
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ १०॥
निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी । निजसंलाप
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥ ११॥
अनाकलितसादृश्यचिबुकश्रीविराजिता । चुबुकश्री
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥ १२॥
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥ १३॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥ १४॥
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥ १५॥
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥ १६॥
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ॥ १७॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥ १८॥
नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥ १९॥
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा । शिञ्जान
मरालीमन्दगमना महालावण्यशेवधिः ॥ २०॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१॥
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२॥
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३॥
देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥ २४॥
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ २५॥
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ २६॥
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥ २७॥
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥ २८॥
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९॥ (विशुक्रवधतोषिता)
(See a note at the end)
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । (विषङ्गप्राणहरण)
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३०॥
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२॥
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३॥
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४॥
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ॥ ३६॥
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥ ३७॥
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
(तृतीया धूम्रिका कला १०१-२०० नामानि)
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९॥
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४०॥
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥ ४१॥
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥ निस्संशया
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१॥
(चतुर्थी मरीच्याख्या कला २०१-३०० नामानि)
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२॥
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥ ५३॥
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ॥ ५४॥
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥ ५५॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६॥
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७॥
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८॥
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९॥
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६०॥
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१॥
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४॥
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५॥
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७॥
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८॥
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९॥
नारायणी नादरूपा नामरूपविवर्जिता ।
(पञ्चमी ज्वालिनी कला ३०१-४०० नामानि)
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७०॥
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३॥
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥ ७४॥
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६॥
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८॥ पाखण्डा
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८०॥
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१॥
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२॥
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३॥
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५॥
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६॥
(षष्ठी रुच्याख्या कला ४०१-५०० नामानि)
व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७॥
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥
चिच्छक्तिश् चेतनारूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥ ९०॥
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।
निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१॥ निस्सीम
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२॥
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३॥
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥ ९४॥
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५॥
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥
वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८॥
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९॥
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १००॥
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१॥
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥
(सप्तमी सुषुम्णा कला ५०१-६०० नामानि)
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३॥
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५॥
मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६॥
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७॥
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८॥
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९॥
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥ ११०॥
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११॥ मोचनी बर्बरालका
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२॥
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३॥
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५॥
परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६॥
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ ११७॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८॥
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९॥
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२०॥
(अष्टमी भोगदा कला ६०१-७०० नामानि)
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥ १२१॥
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२॥
कलात्मिका कलानाथा काव्यालापविनोदिनी । विमोदिनी
सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३॥
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४॥
क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १२५॥
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६॥
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ॥ १२८॥
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३०॥
अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी । अजाजेत्री
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४॥
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६॥
(नवमी विश्वा कला ७०१-८०० नामानि)
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८॥
कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४०॥
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३॥
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥ १४४॥
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५॥
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८॥
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । मार्तण्ड
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
(दशमी बोधिनी कला ८०१-९०० नामानि)
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥
परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३॥
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७॥
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥ १५८॥
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९॥
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६०॥
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१॥
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२॥
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥ सुधास्रुतिः
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४॥
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५॥
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥
(एकादशी धारिणी कला ९०१-१००० नामानि)
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८॥ सोम्या
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७०॥
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१॥
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४॥
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९॥
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८०॥
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ १८१॥
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२॥
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥
॥ इति श्रीब्रह्माण्ड पुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्रनामस्तोत्रकथनं सम्पूर्णम् ॥
फलश्रुतिः
(क्षमाख्या द्वादशी कला)
इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १॥
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २॥
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३॥
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४॥
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५॥
पूजागृहं ततो गत्वा चक्रेराजं समर्चयेत् ।
विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा ॥ ६॥
रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७॥
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादि सर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ॥ ८॥
कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९॥
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद् गाङ्गरोधसि ॥ १०॥
आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११॥
श्रद्धया परया कुर्यात्सहस्रोपरिवत्सरान् ।
तत्पुण्यं कोटिगुणितं लभेत्पुण्यमनुत्तमम् ॥ १२॥
रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३॥
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४॥
यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ॥ १५॥
अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६॥
यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्यर्थं हिमशैले निषेवते ॥ १७॥
भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीलितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८॥
अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९॥
संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २०॥
कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१॥
पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।
सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति ॥ २२॥
अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३॥
तत्क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्म जपेदिदम् ॥ २४॥
तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५॥
अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६॥
यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७॥
नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८॥
ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तः पुरं गता ॥ २९॥
राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ॥ ३०॥
स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१॥
तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२॥
तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३॥
तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४॥
निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५॥
तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६॥
यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७॥
तस्य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८॥
चतुरङ्गबलं तस्य दण्डिनी संहरेत्स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥ ३९॥
लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४०॥
भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१॥
मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२॥
तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३॥
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४॥
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५॥
न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६॥
परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७॥
देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८॥
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९॥
बहुनात्र किमुक्तेना शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५०॥
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१॥
पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैः मल्लिकाकरवीरकैः ॥ ५२॥
उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३॥
तस्य पुण्यफलं वक्त्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४॥
अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५॥
रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६॥
न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७॥
अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८॥
चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान्कामानवाप्येह सर्वसौभाग्यसंयुतः ॥ ५९॥
पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान्यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६०॥
प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१॥
समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२॥
न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३॥
ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४॥
विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५॥
कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६॥
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७॥
नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८॥
विष्णुनामसहस्राच्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९॥
देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७०॥
गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती ।
राजराजेश्वरी बाला श्यामला ललिता दश ॥ ७१॥
रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७२॥
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७३॥
न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्य देवतानाम कीर्तितं जन्मकोटिषु ॥ ७४॥
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७५॥
नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७६॥
तथैव विरलो गुह्यनामसाहस्रपाठकः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७७॥
रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७८॥
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७९॥
स भोजनं विना नूनं क्षुन्-निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ८०॥
नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८१॥
इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८२॥
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८३॥
यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ॥ ८४॥
रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् ।
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ॥ ८५॥
ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८६॥
श्रीसूत उवाच -
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७॥
(श्रीब्रह्माण्डपुराणतः)
पाशाङ्कुशेक्षुसुमराजितपञ्चशाखां
पाटल्यशालिसुषुमाञ्चित गात्रवल्लीम् ।
प्राचीनवाक्स्तुतपदां परदेवतां त्वां
पञ्चायुधार्चितपदां प्रणमामि देवीम् ॥
← Previous
कालभैरव सहस्रनाम स्तोत्र (काल भैरव के १००० नाम) - Kalabhairav Sahasranamam (1000 Names) Stotram Sanskrit Lyrics
Next →
मृत्युंजय सहस्रनाम स्तोत्र (१००० नाम) - Mrityunjaya Sahasranamam Stotram (1000 Names) Sanskrit Lyrics
One Minute of Mindful Play
25 Names of Lalita Devi (ललिता पंचविंशति (२५) नामावली)
▶ Play Now