ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २ ॥
उमादेवी शिरः पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ३ ॥
सुगन्धा नासिकं पातु वदनं सर्वधारिणी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ४ ॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
हृदयं ललितादेवी उदरं सिंहवाहिनी ॥ ५ ॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।
महाबला च जङ्घे द्वे पादौ भूतलवासिनी ॥ ६ ॥
एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥ ७ ॥
इति कुब्जिकातन्त्रोक्तं श्री दुर्गा कवचम् ।
← Previous
दुर्गा अष्टोत्तर शतनामावली (देवी दुर्गा के १०८ नाम) - 108 Names Durga Ashtottara Shatanamavali Sanskrit Lyrics
Next →
दुर्गा सहस्त्रनाम स्तोत्र (१००० नाम) - 1000 Names Durga Sahasranama Stotram Sanskrit Lyrics
Can You Find All Sacred Words?
32 Names of Maa Durga (माँ दुर्गा के ३२ नाम) Word Search
▶ Play Now