॥ अथ दुर्गा सूक्तम् ॥
ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीग्ं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥
अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥
पृतना जितग्ं सहमानमुग्रमग्निग्ं हुवेम परमाथ्सधस्थात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरिताऽत्यग्निः ॥
प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
स्वाञ्चाऽग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम ।
नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॥
कात्यायनाय विद्महे कन्यकुमारि धीमहि ।
तन्नो दुर्गिः प्रचोदयात् ॥
॥ इति दुर्गा सूक्तम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
← Previous
Devi Suktam (Aparajita Stotram) Sanskrit Lyrics – दुर्गा देवी सूक्तम (अपराजिता स्तोत्र)
Next →
Dwadash (12) Aditya Dhyana Shlok Sanskrit Lyrics – द्वादश आदित्य नाम एवं ध्यान श्लोक
Explore the Sacred Game
32 Names of Maa Durga (माँ दुर्गा के ३२ नाम)
▶ Play Now