वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
अतसी पुष्प सङ्काशं हार नूपुर शोभितम् ।
रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ॥
कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् ।
विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ॥
मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् ।
बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥
उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् ।
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ॥
रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम् ।
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ॥
गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ।
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥
श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् ।
शङ्खचक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ॥
कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ॥
← Previous
Kashi Vishwanatha Stotram Sanskrit Lyrics by Adi Shankaracharya – काशी विश्वनाथ अष्टकम स्तोत्र (आदि शंकराचार्य कृत)
Next →
Mallikarjuna Mangalashasanam Stotram Sanskrit Lyrics by Adi Shankaracharya – मल्लिकार्जुन मंगलशासनम स्तोत्र (आदि शंकराचार्य कृत)
Explore the Sacred Game
24 Names of Krishna (२४ कृष्ण चतुर्विंशती नामावली)
▶ Play Now