गोपाल विंशति स्तोत्रं वेदान्त देशिक कृत - Gopala Vinshati Stotram Sanskrit Lyrics

गोपाल विंशति स्तोत्रं वेदान्त देशिक कृत - Gopala Vinshati Stotram Sanskrit Lyrics

श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥१॥

वाचं निजाङ्करसिकां प्रसमीक्षमाणो
  वक्त्रारविन्दविनिवेशितपांचजन्यः ।
वर्णः त्रिकोणरूचिरे वरपुण्डरीके
  बद्धासनो जयति वल्लवचक्रवर्ती ॥२॥

आम्नायगन्धरुदितस्फुरिताधरोष्ठम्
  आस्राविलेक्षणमनुक्षणमन्दहासम् ।
गोपालडिम्भवपुषं कुहना जनन्याः
  प्राणस्तनन्धयमवैमि परं पुमांसम् ॥३॥

आविर्भवत्वनिभृताभरणं पुरस्तात्
  आकुंचितैकचरण निभृहितान्यपादम् ।
दध्नानिबद्धमुखरेण निबद्धतालं
  नाथस्य नन्दभवने नवनीतनाट्यम् ॥४॥

कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिः
  संदश्य मातुरनिशं कुचचूचुकाग्रम् ।
नन्दस्य वक्त्रमवलोकयतो मुरारेर्-
  मन्दस्थितं मममनीषितमातनोतु ॥५॥

हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं
    दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन्
    मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥६॥

व्रजयोषिदपाङ्ग वेधनीयं
    मथुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधू स्तनन्धयं तद्-
    किमपि ब्रह्म किशोरभावदृश्यम् ॥८॥

परिवर्तितकन्धरं भयेन
    स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासकं कयोश्चिद्-
    विपुलोलूखलकर्षकं कुमारम् ॥९॥

निकटेषु निशामयामि नित्यं
    निगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं
    यमुनासाक्षिकयौवनं युवानम् ॥१०॥

पदवीमदवीयसीं विमुक्ते-
    रटवीं सम्पदम्बु वाहयन्तीम् ।
अरूणाधरसाभिलाषवंशां
    करुणां कारणमानुषीं भजामि ॥११॥

अनिमेषनिवेष्णीयमक्ष्णो-
    रजहद्यौवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः
    करुणोन्मादकविग्रहं महो मे ॥१२॥

अनुयायिमनोज्ञवंशनालै-
    रवतु स्पर्शितवल्लवीविमोहैः ।
अनघस्मितशीतलैरसौ माम्
    अनुकम्पासरिदम्बुजैरपाङ्गैः ॥१३॥

अधराहितचारूवंशनाला
    मकुटालम्बिमयूरपिञ्च्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः
    प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥१४॥

अखिलानवलोकयामि कालान्
    महिलादीनभुजान्तरस्यूनः ।
अभिलाषपदं व्रजाङ्गनानाम्
    अभिलाक्रमदूरमाभिरूप्यम् ॥१५॥

महसे महिताय मौलिना
    विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामि विमुग्धवल्लवी-
    वलयाभाषितमञ्जुवेणवे ॥१६॥

जयतु ललितवृत्तिं शिक्षितो वल्लवीनां
    शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेशस्य विष्णो-
    रधरमणिसुधायामंशवान् वंशनालः ॥१७॥

चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरं
    बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।
गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं
    गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥१८॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या-
    मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितो मेखलादत्तवेणु-
    र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ॥१९॥

प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालीं
    पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद्
    वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥२०॥

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां
    लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
    कामी कश्चित्करकमलयोरञ्जलिं याचमानः ॥२१॥

इत्यनन्यमनसा विनिर्मितां
    वेंकटेशकविना स्तुतिं पठन् ।
दिव्यवेणुरसिकं समीक्षते
    दैवतं किमपि यौवतप्रियम् ॥२२॥

॥ इति श्रीवेदान्तदेशिककृतं गोपालविंशतिस्तोत्रं सम्पूर्णम् ॥
Now Playing