श्री लक्ष्मी कवच स्तोत्र - Lakshmi Kavach Stotram Sanskrit Lyrics For Divine Blessings

श्री लक्ष्मी कवच स्तोत्र - Lakshmi Kavach Stotram Sanskrit Lyrics For Divine Blessings

॥ अथ श्रीलक्ष्मीकवचम् ॥

नारायण उवाच ।
श‍ृणु विप्रेन्द्र पद्मायाःकवचं परमं शुभम् ।
पद्मनाभेन यद्दत्तंब्रह्मणे नाभिपद्मके ॥१॥
सम्प्राप्य कवचं ब्रह्मातत्पद्मे ससृजे जगत् ।
पद्मालयाप्रसादेनसलक्ष्मीको बभूव सः ॥२॥
पद्मालयावरं प्राप्यपाद्मश्च जगतां प्रभुः ।
पाद्येन पद्मकल्पे चकवचं परमाद्भुतम् ॥३॥
दत्तं सनत्कुमारायप्रियपुत्राय धीमते ।
कुमारेण च यद्दत्तंपुष्कराय च नारद ॥४॥
यद्धृत्वा पाठनाद् ब्रह्मासर्वसिद्धेश्वरो महान् ।
परमैश्वर्यसंयुक्तःसर्वसम्पत्समन्वितः ॥५॥
यद्धृत्वा च धनाध्यक्षःकुबेरश्च धनाधिपः ।
स्वायम्भुवो मनुःश्रीमान्पठनाद्धारणाद्यतः ॥६॥
प्रियव्रतोत्तानपादौलक्ष्मीवन्तौ यतो मुने ।
पृथुः पृथ्वीपतिःसद्यो ह्यभवद्वारणाद्यतः ॥७॥
कवचस्य प्रसादेनस्वयं दक्षः प्रजापतिः ।
धर्मश्च कर्मणां साक्षीपाता यस्य प्रसादतः ॥८॥
यद्धृत्वा दक्षिणे बाहौविष्णुः क्षीरोदशायितः ।
भक्त्या विधत्ते कण्ठेच शेषो नारायणांशकः ॥९॥
यद्धृत्वा वामनं लेभेकश्यपश्च प्रजापतिः ।
सर्वदेवाधिपःश्रीमान्महेन्द्रो धारणाद्यतः ॥१०॥
राजा मरुतोभगवानभवद्धारणाद्यतः ।
त्रैलोक्याधिपतिः श्रीमान्नहुषोयस्य धारणात् ॥११॥
विश्वं विजिग्ये खट्वाङ्गःपठनाद्धारणाद्यतः ।
मुचुकुन्दो यतःश्रीमान्मान्धातृतनयो महान् ॥१२॥
सर्वसम्पत्पदस्यास्यकवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहतीदेवी पद्मालया स्वयम् ॥१३॥
धर्मार्थकाममोक्षेषुविनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतांकवचं परमाद्भुतम् ॥१४॥
ॐ ह्रीं कमलवासिन्यै स्वाहामे पातु मस्तकम् ।
श्रीं मे पातु कपालंच लोचने श्रीं श्रियै नमः ॥१५॥
ॐ श्रीं श्रियै स्वाहेतिच कर्णयुग्मं सदाऽवतु ।
ॐ श्रीं क्लीं महालक्ष्म्यैस्वाहा मे पातु नासिकाम ॥१६॥
ॐ श्रीं पद्मालयायै चस्वाहा दन्तान्सदाऽवतु ।
ॐ श्रीं कृष्णप्रियायैच दन्तरन्ध्रं सदाऽवतु ॥१७॥
ॐ श्रीं नारायणेशायैमम कण्ठं सदाऽवतु ।
ॐ श्रीं केशवकान्तायैमम स्कन्धं सदाऽवतु ॥१८॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहानाभिं सदाऽवतु ।
ॐ ह्रीं श्रीं संसारमात्रेमम वक्षः सदाऽवतु ॥१९॥
ओं श्रीं मों कृष्णकान्तायै स्वाहापृष्ठं सदाऽवतु ।
ओं ह्रीं श्रीं श्रियै स्वाहाच मम हस्तौ सदाऽवतु ॥२०॥
ॐ श्रीनिवासकान्तायैमम पदौ सदाऽवतु ।
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहासर्वाङ्गं मे सदाऽवतु ॥२१॥
प्राच्यां पातुमहालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातुनैरृत्यां श्रीर्हरिप्रिया ॥२२॥
पद्मालया पश्चिमे मांवायव्यां पातु सा स्वयम् ।
उत्तरे कमला पातुचैशान्यां सिन्धुकन्यका ॥२३॥
नारायणी च पातूर्ध्वमधोविष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातुविष्णुप्राणाधिका मम ॥२४॥
इति ते कथितं वत्ससर्वमन्त्रौघविग्रहम् ।
सर्वैश्वर्यप्रदं नामकवचं परमाद्भुतम् ॥२५॥
सुवर्णपर्वतं दत्वामेरुतुल्यं द्विजातये ।
यत्फलं लभते धर्मीकवचेन ततोऽधिकम् ॥२६॥
गुरुमभ्यर्च्य विधिवत्कवचंधारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौस श्रीमान्प्रतिजन्मनि ॥२७॥
अस्ति लक्ष्मीर्गृहे तस्यनिश्चला शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्चसोऽवध्यो निश्चितं भवेत् ॥२८॥
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषुदीक्षितः ।
स स्नातः सर्वतीर्थेषुयस्येदं कवचं गले ॥२९॥
यस्मै कस्मै न दातव्यंलोभमोहभयैरपि ।
गुरुभक्ताय शिष्यायशरण्याय प्रकाशयेत् ॥३०॥
इदं कवचमज्ञात्वाजपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसङ्ख्यं प्रजप्तोऽपिन मन्त्रः सिद्धिदायकः ॥३१॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसम्वादे
श्रीलक्ष्मीकवचवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ॥

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing