सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
बृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १ ॥
सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २ ॥
शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३ ॥
शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४ ॥
इन्दीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५ ॥
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६ ॥
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतिरङ्गं रसिकवरं
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृत आनन्दं भ्रान्तिहरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७ ॥
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८ ॥
इति श्रीमद्वल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकम् ॥
← Previous
Worship Krishna's Feet With Murari Pancharatnam Stotra Sanskrit Lyrics – मुरारि पंच रत्न स्तोत्र (श्री कृष्ण चरण कमल स्तुति)
Next →
Nav Durga Stotra (9 Avatars of Maa) Sanskrit Lyrics For Navratri – नवदुर्गा स्तोत्र (माँ दुर्गा के नौ रूप)
Discover Hidden Names
24 Names of Krishna (२४ कृष्ण चतुर्विंशती नामावली)
▶ Play Now