मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ १ ॥
वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ २ ॥
विश्वामित्रान्तरङ्गाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ ३ ॥
पितृभक्ताय सततं भातृभिः सह सीतया ।
नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ ४ ॥
त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ ५ ॥
सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ ६ ॥
दण्डकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ ७ ॥
सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ ८ ॥
हनुन्त्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मङ्गलम् ॥ ९ ॥
श्रीमते रघुवीराय सेतूल्लङ्घित सिन्धवे ।
जितराक्षस राजाय रणधीराय मङ्गलम् ॥ १० ॥
विभीषणकृते प्रीत्या लङ्काभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ ११ ॥
आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ १२ ॥
ब्रह्मादि देवसेव्याय ब्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मङ्गलम् ॥ १३ ॥
श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मङ्गलम् ॥ १४ ॥
मङ्गलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ १५ ॥
रम्यजा मातृ मुनिना मङ्गलाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥