Saraswati Kavach Stotram Sanskrit Lyrics – सरस्वती कवच स्तोत्र

Saraswati Kavach Stotram Sanskrit Lyrics – सरस्वती कवच स्तोत्र

Share:
(ब्रह्मवैवर्त महापुराणान्तर्गतं)
भृगुरुवाच ।
ब्रह्मन्ब्रह्मविदांश्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ ६०
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयाममन्त्राणां समूहो यत्र संयुतः ॥ ६१ ॥
ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२ ॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३ ॥
अतीव गोपनीयञ्च कल्पवृक्षसमं परम् ।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४ ॥
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ ६५ ॥
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिकी मुनिः ।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजिताः ॥ ६६ ॥
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७ ॥
धृत्वा वेदविभागञ्च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८ ॥
शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९ ॥
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।
जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः ॥ ७० ॥
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ॥ ७१ ॥
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७२ ॥
( कवचं )
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥ ७३ ॥
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ ७४ ॥
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोंष्ठ सदाऽवतु ॥ ७५ ॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ॥ ७६ ॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ ७७ ॥
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ ७८ ॥
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।
ॐ रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥ ७९ ॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्रच्यां सदाऽवतु ।
ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ ८० ॥
ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ ८१ ॥
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां मे सदाऽवतु ।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२ ॥
ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३ ॥
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ ८४ ॥
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदावतु ।
ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५ ॥
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मारूपकम् ॥ ८६ ॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ ८८ ॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्सिद्धकवचो बृहस्पति समो भवेत् ॥ ८९ ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ॥ ९० ॥
इदं ते काण्वशाखोक्तं कथितं कवचं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥ ९१ ॥
इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।
Share
Now Playing