शीतला कवच स्तोत्र - Sheetala Mata Kavach Stotram [with Nyasa, Viniyoga, Dhyana & Phalashruti] Sanskrit Lyrics To Cure Diseases

शीतला कवच स्तोत्र - Sheetala Mata Kavach Stotram [with Nyasa, Viniyoga, Dhyana & Phalashruti] Sanskrit Lyrics To Cure Diseases

॥ अथ श्रीशीतलाकवचम् ॥

॥ पार्वत्युवाच ॥
भगवन् सर्वधर्मज्ञसर्वशास्त्रविशारद ।
शीतलाकवचं ब्रूहिसर्वभूतोपकारकम् ॥१॥
वद शीघ्रं महादेव!कृपां कुरु ममोपरि ।
इति देव्याः वचो श्रुत्वाक्षणं ध्यात्वा महेश्वरः ॥२॥
उवाच वचनं प्रीत्यातत्श‍ृणुष्व मम प्रिये ।
शीतलाकवचं दिव्यंश‍ृणु मत्प्राणवल्लभे ॥३॥

॥ ईश्वर उवाच ॥
शीतलासारसर्वस्वंकवचं मन्त्रगर्भितम् ।
कवचं विना जपेत् योवै नैव सिद्धयन्ति कलौ ॥४॥
धारणादस्य मन्त्रस्यसर्वरक्षाकरनृणाम् ।

॥ विनियोग ॥
कवचस्यास्य देवेशि!ऋषिर्पोक्तो महेश्वरः ।
छन्दोऽनुष्टुप् कथितं चदेवता शीतला स्मृता ।
लक्ष्मीबीजं रमा शक्तिःतारं कीलकमीरितम् ॥५॥
लूताविस्फोटकादीनिशान्त्यर्थे परिकीर्तितः ।
विनियोगः प्रकुर्वीतपठेदेकाग्रमानसः ॥६॥

॥ विनियोग ॥
ॐ अस्य शीतलाकवचस्यश्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,
श्रीशीतला भगवती देवता,श्रीं बीजं, ह्रीं शक्तिः,
ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थेपाठे विनियोगः ॥

॥ ऋष्यादिन्यास ॥
श्रीमहेश्वरऋषये नमः शिरसिअनुष्टुप् छन्दसे नमः मुखे,
श्रीशीतला भगवती देवतायै नमः हृदिश्री बीजाय नमः गुह्ये
ह्रीं शक्तये नमः नाभौ,ॐ कीलकाय नमः पादयो
लूताविस्फोटकादिशान्त्यर्थेपाठे विनियोगाय नमः सर्वाङ्गे ॥

॥ ध्यानम् ॥
उद्यत्सूर्यनिभां नवेन्दुमुकुटांसूर्याग्निनेत्रोज्ज्वलां
नानागन्धविलेपनां मृदुतनुंदिव्याम्बरालङ्कृताम् ।
दोर्भ्यां सन्दधतीं वराभययुगंवाहे स्थितां रासभे
भक्ताभीष्टफलप्रदां भगवतींश्रीशीतलां त्वां भजे ॥

॥ अथ कवचमूलपाठः ॥
ॐ शीतला पातु मे प्राणेरुनुकी पातु चापाने ।
समाने झुनुकी पातुउदाने पातु मन्दला ॥१॥
व्याने च सेढला पातुमनुर्मे शाङ्करी तथा ।
पातु मामिन्द्रियान् सर्वान्श्रीदुर्गा विन्ध्यवासिनी ॥२॥
ॐ मम पातु शिरो दुर्गाकमला पातु मस्तकम् ।
ह्रीं मे पातु भ्रुवोर्मध्येभवानी भुवनेश्वरी ॥
पातु मे मधुमती देवीॐकारं भृकुटीद्वयम् ॥३॥
नासिकां शारदा पातुतमसा वर्त्मसंयुतम् ।
नेत्रौ ज्वालामुखी पातुभीषणा पातु श्रुतिर्मे ॥४॥
कपोलौ कालिका पातुसुमुखी पातु चोष्ठयोः ।
सन्ध्ययोः त्रिपुरा पातुदन्ते च रक्तदन्तिका ॥५॥
जिह्वां सरस्वती पातुतालुके व वाग्वादिनी ।
कण्ठे पातु तु मातङ्गीग्रीवायां भद्रकालिका ॥६॥
स्कन्धौ च पातु मे छिन्नाककुमे स्कन्दमातरः ।
बाहुयुग्मौ च मे पातुश्रीदेवी बगलामुखी ॥७॥
करौ मे भैरवी पातुपृष्ठे पातु धनुर्धरी ।
वक्षःस्थले च मे पातुदुर्गा महिषमर्दिनी ॥८॥
हृदये ललिता पातुकुक्षौ पातु मघेश्वरी ।
पार्ष्वौ च गिरिजा पातुचान्नपूर्णा तु चोदरम् ॥९॥
नाभिं नारायणी पातुकटिं मे सर्वमङ्गला ।
जङ्घयोर्मे सदा पातुदेवी कात्यायनी पुरा ॥१०॥
ब्रह्माणी शिश्नं पातुवृषणं पातु कपालिनी ।
गुह्यं गुह्येश्वरी पातुजानुनोर्जगदीश्वरी ॥११॥
पातु गुल्फौ तु कौमारीपादपृष्ठं तु वैष्णवी ।
वाराही पातु पादाग्रेऐन्द्राणी सर्वमर्मसु ॥१२॥
मार्गे रक्षतु चामुण्डावने तु वनवासिनी ।
जले च विजया रक्षेत्वह्नौ मे चापराजिता ॥१३॥
रणे क्षेमकरी रक्षेत्सर्वत्र सर्वमङ्गला ।
भवानी पातु बन्धून् मेभार्या रक्षतु चाम्बिका ॥१४॥
पुत्रान् रक्षतु माहेन्द्रीकन्यकां पातु शाम्भवी ।
गृहेषु सर्वकल्याणीपातु नित्यं महेश्वरी ॥१५॥
पूर्वे कादम्बरी पातुवह्नौ शुक्लेश्वरी तथा ।
दक्षिणे करालिनी पातुप्रेतारुढा तु नैरृते ॥१६॥
पाशहस्ता पश्चिमे पातुवायव्ये मृगवाहिनी ।
पातु मे चोत्तरे देवीयक्षिणी सिंहवाहिनी ।
ईशाने शूलिनी पातुऊर्ध्वे च खगगामिनी ॥१७॥
अधस्तात्वैष्णवी पातुसर्वत्र नारसिंहिका ।
प्रभाते सुन्दरी पातुमध्याह्ने जगदम्बिका ॥१८॥
सायाह्ने चण्डिका पातुनिशीथेऽत्र निशाचरी ।
निशान्ते खेचरी पातुसर्वदा दिव्ययोगिनी ॥१९॥
वायौ मां पातु वेतालीवाहने वज्रधारिणी ।
सिंहा सिंहासने पातुशय्यां च भगमालिनी ॥२०॥
सर्वरोगेषु मां पातुकालरात्रिस्वरुपिणी ।
यक्षेभ्यो यक्षिणी पातुराक्षसे डाकिनी तथा ॥२१॥
भूतप्रेतपिशाचेभ्यो हाकिनीपातु मां सदा ।
मन्त्रं मन्त्राभिचारेषुशाकिनी पातु मां सदा ॥२२॥
सर्वत्र सर्वदा पातुश्रीदेवी गिरिजात्मजा ।
इत्येतत्कथितं गुह्यंशीतलाकवचमुत्तमम् ॥२३॥

॥ फलश्रुतिः ॥
ब्रह्मराक्षसवेतालाःकूष्माण्डा दानवादयः ।
विस्फोटकभयं नास्तिपठनाद्धारणाद्यदि ॥१॥
अष्टसिद्धिप्रदं नित्यंधारणात्कवचस्य तु ।
सहस्त्रपठनात्सिद्धिःसर्वकार्यार्थसिद्धिदम् ॥२॥
तदर्धं वा तदर्धं वापठेदेकाग्रमानसः ।
अश्वमेधसहस्रस्यफलमाप्नोति मानवः ॥३॥
शीतलाग्रे पठेद्यो वैदेवीभक्तैकमानसः ।
शीतला रक्षयेन्नित्यंभयं क्वापि न जायते ॥४॥
घटे वा स्थापयेद्देवीदीपं प्रज्वाल्य यत्नतः ।
पूजयेत्जगतां धात्रीनाना गन्धोपहारकैः ॥५॥
अदीक्षिताय नो दद्यातकुचैलाय दुरात्मने ।
अन्यशिष्याय दुष्टायनिन्दकाय दुरार्थिने ॥६॥
न दद्यादिदं वर्म तुप्रमत्तालापशालिने ।
दीक्षिताय कुलीनायगुरुभक्तिरताय च ॥७॥
शान्ताय कुलशाक्तायशान्ताय कुलकौलिने ।
दातव्यं तस्य देवेशि!कुलवागीश्वरो भवेत् ॥८॥
इदं रहस्यं परमंशीतलाकवचमुत्तमम् ।
गोप्यं गुह्यतमं दिव्यंगोपनीयं स्वयोनिवत् ॥९॥

॥ इति श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम् ॥

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing