Shiva Padadi Keshanta Varnana Stotram Sanskrit Lyrics To Worship Mahadeva from Feet to Hair – शिव पादादी केशान्त वर्णन स्तोत्र

Shiva Padadi Keshanta Varnana Stotram Sanskrit Lyrics To Worship Mahadeva from Feet to Hair – शिव पादादी केशान्त वर्णन स्तोत्र

Share:
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटिनिकुञ्ज-क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः।तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकीकैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥१॥ 
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगंयस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिवृढः पूस्रयी सा च लक्ष्यंसोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणांमातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ।३॥
कालारातेः कराग्रे कृतवसतिरुरःशाणतातो रिपूणांकाले काले कुलाद्रिप्रवरतनयया कल्पितस्नहलेपः ।
पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तंशूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-प्रस्तारानत्युदारान्पिपटिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदंसोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैःकण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डः प्रोद्दण्डशृङ्गः ककुदकवलितोत्तुङ्गकैलासश्रृङ्गःकण्ठे कालस्य वाहः शमयतु शमलं शाश्व्तः शाक्वरेन्द्रः ॥६॥निर्यद्दानाम्बुधारापरिमळतरळीभूतलोलम्बपालीझङ्कारैःशङ्कराद्रेः शिखरशतदरीः पूरयन्भूरीघोषैः ।
शार्घः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ताशर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥७॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्याद्-यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलःसंसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गंचैलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ताकुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारेःशम्भोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥१०॥वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥
नृत्तारम्भेषु हस्ताहतमुरजधिमीधिक्कृतैरत्युदारै-श्चित्तानन्दं विधत्ते सदसि भगवतः सन्ततं यः स नन्दी ।
चण्डीशाद्यास्तथाऽन्ये चतुरगुणगणप्रीणितस्वामिसत्का-रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः सन्तु सन्तोषिणो नः ॥१२॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयंप्रत्युप्तानर्धरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परितंहृद्यं हॄद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागंशुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्फितानल्पशिल्पम् ।
कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैःशम्भोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदा नः ॥१४॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामोहृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीपीठःपीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौपाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-श्रेणीशोणायमानोन्नत नखदशकोद्भासमानौ समानौ ॥१६॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतुर्-लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभेमाङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥१७॥
अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयातेशत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्तत्-संघातं चारु जङ्घायुगमखिलपतेरंहसा संहरेन्नः ॥१८॥
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकंराजन्तौ राजरम्भाकरिकरकनकस्तम्भसंभावनीयौ ।
ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौचारू दूरीक्रियेतां  दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाने नितम्बेनित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥२०॥
सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढंव्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारोमध्यो मिथ्यार्थसघ्र्यङ् मम दिशतु सदा सङ्गतिं मङ्गळानाम्॥२१॥नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामंसा मां सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-व्यासङ्गाद्यदुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानंवक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥
वामाङ्के विस्फुरन्त्याः करतलविलसच्चारुरक्तोत्पलायाःकान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकं ।अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतानिन्दुमौले-र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥
सम्म्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापात्-संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मासोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥२५॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-रुद्द्योतन्त्या नितान्तं धवळधवळया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानःसद्योजातस्य दद्यादधरमणिरसौ संपदां सञ्चयं नः ॥२६॥
कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायांवर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्यशंभोर्नित्यं नश्चित्तमेतद्विरचयतु सुखे नासिकां नासिकायाम् ॥२७॥
अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना-मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बेभक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानांयेषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दीवरेभ्य-स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभायाव्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणेदक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौकाश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणेकालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥३१॥
स्वामिन् गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तींधन्यां कन्यां खरांशोः शिरसि वहति किंन्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥
श्रृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैःसूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रश्रृङ्गंसङ्घं नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥३३॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयाऽवस्थयैव ब्रुवाणंवन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥३४॥
कान्त्या संफुल्लमल्लीकुसुमधवळया व्याप्य विश्वं विराजन्वृत्ताकारो वितन्वन् मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्ममानः पुरारेःश्वेतच्छत्राख्यशीतद्युतिरपहरतादस्तापदा नः ॥३५॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानांरुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेल्लद्वाहुवल्लीविलसनसमये चामरान्दोलनीनामुद्भूतःकङ्कणालीवलयकलकलो वारयेदापदो नः ॥३६॥
स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणांवल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसम्भावनानि ॥३७॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानु विद्धंगानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥
चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनांपाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।
स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीमायूरीं मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥३९॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यःसाध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यःसवभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥
ध्यायन्नित्यं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यःकिंवा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वंसम्प्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्कराचार्यस्य कृतम्शिवपादादिकेशान्तवर्णनस्तोत्रं संपूर्णम् ॥
Share
Now Playing