श्यामला नवरत्नमालिका स्तव - Shyamala Navaratna Malika Stotra Sanskrit Lyrics

श्यामला नवरत्नमालिका स्तव - Shyamala Navaratna Malika Stotra Sanskrit Lyrics

ध्यानश्लोकौ -
कचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां
कुशेशयनिवेशिनीं कुटिलचित्तविद्वेषिणीम् ।
मदालसगतिप्रियां मनसिजारिराज्यश्रियं
मतङ्गकुलकन्यकां मधुरभाषिणीमाश्रये ॥

कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्तकुचभाराम् ।
आनीलनीलदेहामम्बामखिलाण्डनायिकां वन्दे ॥

अथ स्तोत्रम् -
ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलीकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥

दयमानदीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् ।
वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥

श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषां
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४॥

सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तान्ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥

अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनलेशाकम्पितशीर्षां नमामि मातङ्गीम् ॥ ६॥

वीणारवानुषङ्गं विकचमुखाम्भोजमाधुरीभृङ्गम् ।
करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७॥

मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते ।
मातस्तव स्वरूपं मङ्गलसङ्गीतसौरभं वन्दे ॥ ८॥

मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् ।
यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ९॥

नवरत्नमाल्यमेतद्रचितं मातङ्गकन्यकाऽऽभरणम् ।
यः पठति भक्तियुक्तस्सफलस्स भवति शिवाकृपापात्रम् ॥ १०॥

प्रपञ्चपञ्चीकृतकनिदानपदपांसवे ।
वीणावेणुशुकालापप्रवीणमहसे नमः ॥ ११॥

इति श्यामलानवरत्नमालिकास्तवः सम्पूर्णः । 
Now Playing