सूर्याष्टकं स्तोत्र एवं फलश्रुति - Surya Ashtakam Stotra Sanskrit Lyrics with Phalashruti

सूर्याष्टकं स्तोत्र एवं फलश्रुति - Surya Ashtakam Stotra Sanskrit Lyrics with Phalashruti

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते ॥१॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

बृंहितं तेज:पु़ञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ।

॥ फलश्रुति ॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥

अमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥

स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing