जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरिं सर्वपापघ्नं प्रणतोस्मिदिवाकरम् ॥ १ ॥
सूर्यो अर्यमा भगस्त्वष्टा पूषार्कस्सरितारविः ।
गभस्ति मानजः कालो मृत्युर्दाता प्रभाकरः ॥ २ ॥
भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः ।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३ ॥
ब्रह्म स्वरूप उदये मध्याह्नेतु महेश्वरः ।
अस्तकाले स्वयं विष्णुं त्रयीमूर्ती दिवाकरः ॥ ४ ॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ५ ॥
ॐ ग्रहराजाय विद्महे कालाधिपाय धीमहि तन्नो रविः प्रचोदयात् ॥