वराह अष्टकम स्तोत्र - Varaha Ashtak Stotra Sanskrit Lyrics (Lord Vishnu's 3rd Avatar)

वराह अष्टकम स्तोत्र - Varaha Ashtak Stotra Sanskrit Lyrics (Lord Vishnu's 3rd Avatar)

कमलायतनेत्राय कमलायतनोरसे ।
वराहवपुषे दैत्यवराहवपुषे नमः ॥ १॥

वामांसभूषायितविश्वधात्री
वामस्तनन्यस्तकरारविन्दः ।
जिघ्रन मुखेनापि कपोलमेनां
जीवातुरस्माकगुरोः स जीयात् ॥ २॥

वेदिस्तनूराहवनीयमास्यं
बहीं षि लोमानि जुहूश्च नासा ।
शम्या च दंष्ट्राजनि यस्य यूपो
वालो मखात्मा स पुनातु पोत्री ॥ ३॥

पापेन दैन्येन भवाम्बुराशौ
निपातितं मां निरवग्रहोर्मौ ।
धूतारिरद्धृत्य धरामिवोच्चैः
कुर्यान्मुदं मे कुहनावराहः ॥ ४॥

वेशन्तति व्रतजुषां हृदयं मुनीनां
वेगापगाविहृतिकाननचङ्क्रमाणाम् ।
मुस्तागणन्ति किल यस्य सुरारिवर्गाः
कोलः स कोऽपि कुशलं कुरुतादजस्त्रम् ॥ ५॥

कल्याणमङ्कुरति यस्य कटाक्षलेशा-
द्यस्य प्रिया वसुमती सवनं यदङ्गम् ।
अस्मद्गुरोः कुलधनं चरणौ यदीयौ
भूयः शुभं दिशतु भूमिवराह एषः ॥ ६॥

कल्पान्तसन्ततधनाघननिर्विघात-
निर्घातवातरवनिष्ठुरतारधीरम् ।
मायाकिटेबेधिरितगृहिणश्रवस्कं
घोणापुटीघुरघुरारसितं पुनातु ॥ ७॥

झटिति विलुठदूर्मीचाटुवाचाटसिन्धु-
स्फुटपटहविदस्रस्फोटदीप्तोटमुद्यम् ।
खरखुरपुटघाताधूतखाटारिवाटः ।
कपटकिटिरघौघाटोपमुच्चाटयेन्नः ॥ ८॥

यत्कारिकादर्पणाख्यकृतिनावा भवाम्बुधिम् ।
सन्तस्तरन्ति वरदगुरवे श्रीमते नमः ॥ ९॥

इति श्रीवराहाष्टकं सम्पूर्णम् ।
Now Playing