वराह स्तोत्र (भूदेवी कृत) - Varaha Stotram by Bhudevi Sanskrit Lyrics

वराह स्तोत्र (भूदेवी कृत) - Varaha Stotram by Bhudevi Sanskrit Lyrics

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय
यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय
नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५॥

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६॥

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नमः ॥ ३७॥

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणैः ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकरः ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वतः
क्रीडन्निवेभः प्रणतास्मि तं विभुमिति ॥ ३९॥

इति श्रीमद्भागवतमहापुराणे पञ्चमस्कन्धे अष्टादशाध्यायान्तर्गतं
भूदेवीकृतं वराहस्तोत्रं समाप्तम् ।

भागवतपुराण । अध्याय ५/१८/३५-३९॥

देवीभागवतम् । स्कन्ध ८। अध्याय १०/७-१२॥
Now Playing