आनीय वसुधां देवीमङ्कस्थामकरोद्बहिः ।
ततस्तुष्टावदेवेशं देवदेवः पितामहः ॥ १०॥
शक्राद्यैः सहितो भूत्वा हर्षगद्गदया गिरा ॥
ब्रह्मोवाच ।
शाश्वताय वराहाय दंष्ट्रिणे दण्डिने नमः ॥ ११॥
नारायणाय सर्वाय ब्रह्मणे परमात्मने ।
कर्त्रे धर्त्रे धरायास्तु हर्त्रे देवारिणां स्वयम् ।
कर्त्रे नेत्रे सुरेन्द्राणां शास्त्रे च सकलस्य च ॥ १२॥
त्वमष्टमूर्तिस्त्वमनन्तमूर्तिस्त्वमादिदेवस्त्वमनन्तवेदितः ।
त्वया कृतं सर्वमिदं प्रसीद सुरेश लोकेश वराह विष्णो ॥ १३॥
तथैकदंष्ट्राग्रमुखाग्रकोटिभागैकभागार्धतमेन विष्णो ।
हताः क्षणात्कामददैत्यमुख्याः स्वदंष्ट्रकोट्या सह पुत्रभृत्यैः ॥ १४॥
त्वयोद्धृता देव धरा धरेशधराधराकार धृताग्रदंष्ट्रे ।
धराधरैः सर्वजनैः समुद्रैः सुरासुरैः सेवितचन्द्रवक्त्र ॥ १५॥
त्वयैव देवेश विभो कृतश्च जयः सुराणामसुरेश्वणाम् ।
अहो प्रदत्तस्तु वरः प्रसीद वाग्देवता वारिजसम्भवाय ॥ १६॥
तव रोम्णि सकलामरेश्वरा नयनद्वये शशिरवी पदद्वये ।
निहिता रसातलगता वसुन्धरा तव पृष्ठतः सकलतारकादयः ॥ १७॥
जगतां हिताय भवता वसुन्धरा भगवन् रसातलसपुटं गता तदा ।
अबलोद्धृता च भगवंस्त्वयैव सकलं त्वयैव हि धृतं जगद्गुरो ॥ १८॥
इति वाक्पतिर्बहुविधैस्तवार्चनैः प्रणिपत्य विष्णुममरैः प्रजापतिः ।
विविधान्वरान् हरिमुखात्तु लब्धवान् हरिनाभिवारिजदेहभृत्स्वयम् ॥ १९॥
इति श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्नवतितमाध्यायान्तर्गतं
ब्रह्माद्यैः कृतं वराहस्तोत्रं समाप्तम् ।
लिङ्गपुराण । पूर्वभाग । अध्याय ९४/११-१८॥