मार्कण्डेय उवाच ।
नारायणं परब्रह्म सर्व-कारण-कारणम् ।
प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम ॥ १ ॥
सहस्र-शीर्षा पुरुषो वेङ्कटेश-श्शिरोऽवतु ।
प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ २ ॥
आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः ॥ ३ ॥
सर्वत्र सर्वकालेषु मङ्गाम्बाजा-निरीश्वरः ।
पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ ४ ॥
य एत-द्वज्रकवच-मभेद्यं वेङ्कटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ ५ ॥
इति मार्कण्डेय-कृतं श्री वेङ्कटेश्वर वज्रकवच-स्तोत्रं सम्पूर्णम् ॥
← Previous
Devi Vaibhava Ashcharya Ashtottara Shatanamavali (108 Names of Goddess Durga) Sanskrit Lyrics – देवी वैभव आश्चर्य अष्टोत्तर शतनामावली (देवी दुर्गा के १०८ नाम)
Next →
108 Names Venkateshwara Ashtottara Shatanama Stotram Sanskrit Lyrics – श्री वेंकटेश्वर अष्टोत्तरशतनाम स्तोत्र (१०८ नाम)