कलितकनकचेलं खण्डितापत्कुचेलं
गलधृतवनमालं गर्वितारातिकालम् ।
कलिमलहरशीलं कान्तिधूतेन्द्रनीलं
विनमदवनशीलं वेणुगोपालमीडे ॥ १ ॥
व्रजयुवतिविलोलं वन्दनानन्दलोलं
करधृतगुरुशैलं कञ्जगर्भादिपालम् ।
अभिमतफलदानं श्रीजितामर्त्यसालं
विनमदवनशीलं वेणुगोपालमीडे ॥ २ ॥
घनतरकरुणाश्रीकल्पवल्ल्यालवालं
कलशजलधिकन्यामोदकश्रीकपोलम् ।
प्लुषितविनतलोकानन्तदुष्कर्मतूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ ३ ॥
शुभदसुगुणजालं सूरिलोकानुकूलं
दितिजततिकरालं दिव्यदारायितेलम् ।
मृदुमधुरवचःश्री दूरितश्रीरसालं
विनमदवनशीलं वेणुगोपालमीडे ॥ ४ ॥
मृगमदतिलकश्रीमेदुरस्वीयफालं
जगदुदयलयस्थित्यात्मकात्मीयखेलम् ।
सकलमुनिजनालीमानसान्तर्मरालं
विनमदवनशीलं वेणुगोपालमीडे ॥ ५ ॥
असुरहरणखेलनं नन्दकोत्क्षेपलीलं
विलसितशरकालं विश्वपूर्णान्तरालम् ।
शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं
विनमदवनशीलं वेणुगोपालमीडे ॥ ६ ॥
स्वपरिचरणलब्ध श्रीधराशाधिपालं
स्वमहिमलवलीलाजातविध्यण्डगोलम् ।
गुरुतरभवदुःखानीक वाःपूरकूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ ७ ॥
चरणकमलशोभापालित श्रीप्रवालं
सकलसुकृतिरक्षादक्षकारुण्य हेलम् ।
रुचिविजिततमालं रुक्मिणीपुण्यमूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ ८ ॥
श्रीवेणुगोपाल कृपालवालां
श्रीरुक्मिणीलोलसुवर्णचेलाम् ।
कृतिं मम त्वं कृपया गृहीत्वा
स्रजं यथा मां कुरु दुःखदूरम् ॥ ९ ॥
इति श्री वेणुगोपालाष्टकम् ।
← Previous
Vedanta Dindima Stotra Sanskrit Lyrics by Adi Shankaracharya – ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः वेदान्त डिण्डिमः स्तोत्र
Next →
Shailaputri Devi Mantra, Aarti, Kavach, Stotra Sanskrit Lyrics – शैलपुत्री माता मंत्र, आरती, कवच स्तोत्र
Explore the Sacred Game
24 Names of Krishna (२४ कृष्ण चतुर्विंशती नामावली)
▶ Play Now