विष्णु अष्टकं स्तोत्र एवं फलश्रुति - Vishnu Ashtakam Stotram with Phalashruti [Sanskrit Lyrics]

विष्णु अष्टकं स्तोत्र एवं फलश्रुति - Vishnu Ashtakam Stotram with Phalashruti [Sanskrit Lyrics]

श्रीगणेशाय नमः ।
विष्णुं विशालारुणपद्मनेत्रं विभान्तमीशांबुजयोनिपूजितम् ।
सनातनं सन्मतिशोधितं परं पुमांसमाद्यं सततं प्रपद्ये ॥१॥

कल्याणदं कामफलप्रदायकं कारुण्यरूपं कलिकल्मषघ्नम् ।
कलानिधिं कामतनूजमाद्यं नमामि लक्ष्मीशमहं महान्तम् ॥२॥

पीतांबरं भृङ्गनिभं पितामह-प्रमुख्यवन्द्यं जगदादिदेवम् ।
किरीटकेयूरमुखैः प्रशोभितं श्रीकेशवं सन्ततमानतोऽस्मि ॥३॥

भुजङ्गतल्पं भुवनैकनाथं पुनः पुनः स्वीकृतकायमाद्यम् ।
पुरन्दराद्यैरपि वन्दितं सदा मुकुन्दमत्यन्तमनोहरं भजे ॥ ४॥

क्षीरांबुराशेरभितः स्फुरन्तं शयानमाद्यन्तविहीनमव्ययम् ।
सत्सेवितं सारसनाभमुच्चैः विघोषितं केशिनिषूदनं भजे ॥ ५॥

भक्तार्त्तिहन्तारमहर्न्निशन्तं मुनीन्द्रपुष्पाञ्जलिपादपङ्कजम् ।
भवघ्नमाधारमहाश्रयं परं परापरं पङ्कजलोचनं भजे ॥ ६॥

नारायणं दानवकाननानलं नतप्रियं नामविहीनमव्ययम् ।
हर्त्तुं भुवो भारमनन्तविग्रहं स्वस्वीकृतक्ष्मावरमीडितोऽस्मि ॥ ७॥

नमोऽस्तु ते नाथ! वरप्रदायिन् नमोऽस्तु ते केशव! किङ्करोऽस्मि ।
नमोऽस्तु ते नारदपूजिताङ्घ्रे नमो नमस्त्वच्चरणं प्रपद्ये ॥ ८॥

॥ फलश्रुतिः ॥
विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः ।
सर्वपापविनिर्मुक्तो, विष्णुलोकं स गच्छति ॥

इति श्रीनारायणगुरुविरचितं श्रीविष्ण्वष्टकं सम्पूर्णम् । 

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing