Vishnu Shatpadi Stotram (Avinaya Mapanaya) Sanskrit Lyrics by Adi Shankaracharya – विष्णु षटपदी स्तोत्र (आदि शंकराचार्य कृत)

Vishnu Shatpadi Stotram (Avinaya Mapanaya) Sanskrit Lyrics by Adi Shankaracharya – विष्णु षटपदी स्तोत्र (आदि शंकराचार्य कृत)

Share:
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसारसागरतः ॥ १ ॥
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे ॥ २ ॥
सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥ ५ ॥
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥
इति श्रीमच्चङ्कराचार्य विरचितं श्री विष्णु षट्पदी स्तोत्रं सम्पूर्णम्
Share
Now Playing