असिताङ्गो विशालाक्षो मार्तण्डो मोदकप्रियः ।
स्वच्छन्दो विघ्नसन्तुष्टः खेचरः सचराचरः ॥ १॥
रुरुश्च क्रोड-दंष्ट्रश्च तथैव च जटाधरः ।
विश्वरूपो विरूपाक्षो नानारूपधरः परः ॥ २॥
वज्रहस्तो महाकायश्चण्डश्च प्रलयान्तकः ।
भूमिकम्पो नीलकण्ठो विष्णुश्च कुलपालकः ॥ ३॥
मुण्डमालः कामपालः क्रोधो वै पिङ्गलेक्षणः ।
उग्ररूपो धरापालः कुटिलो मन्त्रनायकः ॥ ४॥
रुद्रः पितामहाख्यश्च व्युन्मत्तो बटुनायकः ।
शङ्करो भूत-वेतालस्त्रिनेत्रस्त्रिपुरान्तकः ॥ ५॥
वरदः पर्वतावासः कपालः शशिभूषणः ।
हस्तिचर्माम्बरधरो योगीशो ब्रह्मराक्षसः ॥ ६॥
सर्वज्ञः सर्वदेवेशः सर्वभूतहृदि स्थितः ।
भीषणाख्यो भयहरः सर्वज्ञाख्यस्तथैव च ॥ ७॥
कालाग्निश्च महारोद्रौ दक्षिणो मुखरोऽस्थिरः ।
संहारश्चातिरिक्ताङ्ग कालाग्निश्च प्रियङ्करः ॥ ८॥
घोरनादो विशालाङ्गो योगीशो दक्षसंस्थितः ।
चतुःषष्टीरूपधृग्देवो भैरवः स सदाऽवतु ॥ ९॥
इति श्रीरुद्रयामले तन्त्रे चतुःषष्टिभैरवनामावलिः समाप्ता ।
← Previous
बटुक भैरव स्तवराज स्तोत्र - Batuk Bhairav Stavaraja Stotram Sanskrit Lyrics
Next →
भैरव पंजर कवच स्तोत्र - Bhairav Panjara Kavach Stotram Sanskrit Lyrics, Powerful Shield for Protection
Discover Hidden Names
8 Names of Bhairava (अष्टभैरव के नाम) Word Search
▶ Play Now