त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
----------------
विकल्प सङ्कर्पण
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ १ ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ २ ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ ३ ॥
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ ४ ॥
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च ।
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ ५ ॥
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् ।
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ ६ ॥
काशीक्षेत्रे निवासं च कालभैरव दर्शनम् ।
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ ७ ॥
उमया सह देवेशं वाहनं नन्दिशङ्करम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ ८ ॥
इति श्री बिल्वाष्टकम् ॥
← Previous
Bala Mukundashtakam Stotram Sanskrit Lyrics Praising Baby Krishna, Written by Sage Markandeya – बाल मुकुन्दाष्टकम स्तोत्र (करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम)
Next →
Chandrashekhar Nakshatra Mala Stotram Sanskrit Lyrics – चन्द्रशेखर नक्षत्र माला स्तोत्र