Chandrashekhar Nakshatra Mala Stotram Sanskrit Lyrics – चन्द्रशेखर नक्षत्र माला स्तोत्र

Chandrashekhar Nakshatra Mala Stotram Sanskrit Lyrics – चन्द्रशेखर नक्षत्र माला स्तोत्र

Share:
श्रीमच्छृङ्गगिरौ महामहिमनि प्रद्योतमाने मठे
     नित्यं सन्निहितां हितां प्रणमते श्रीशारदाम्बां तथा ।
प्रख्यातं भुवि चन्द्रमौलिवचसा लिङ्गं समाराधयन्
     संलीनो मुदि चन्द्रशेखरगुरुप्रष्ठो विभाति स्फुटम् ॥ १॥
मत्पूज्यस्त्विति भावना समुदियाल्लोकस्य यद्दर्शनाद्
     गम्भीरैर्मृदुभिर्यदीयभणितैर्मन्दस्मितोपस्कृतैः ।
श्रोत्रन्तःकरणं शिलोपममपि प्रेयान्मृदुत्वं ध्रुवं
     नित्यं नृत्यतु मे मनोमधुकरस्तत्पादपद्मद्वये ॥ २॥
चण्डत्वाख्या न वृत्तिर्मनसि समुदियाद्यस्य सत्त्वप्रधाने
     सर्वे कामाः समन्ताद्वशमुपगमिता यं विजेतुं प्रवृत्ताः ।
वैराग्याख्यात्स्वकीयात्सुदृढतरभटाद्विक्लबं हन्त याता
     धावत्सूक्तं जपन्तो विलयमुपगता जन्म नैव प्रयायुः ॥ ३॥
द्रढिमा वसतिविहीनो मनोऽन्तरे यन्मानसरङ्गे हि ।
नृत्यति तत एव सुखं नित्यं यः श्रीगुरुरनुभवति सदा ॥ ४
शेषोऽपि यस्य शमदान्तिमुखान्गुणान्नु
     न ध्यातुमप्यलमिति प्रतियन्ति सर्वे ।
वाचस्पतिः खलु मतौ न मतं तदीयं
     यश्चेहते ननु तथापि विचित्रमेतत् ॥ ५॥
खवॄन्दं व्यावृत्तं विषयचयतो यस्य च गुरोः
     सदा निर्व्यापारं तत इह मनो बाह्यविषयात् ।
निवृत्तं चैकाग्रं परमपदवीं हा सुखमयीं
     स्पृशद्बुद्धावस्थं लयमुपगतं स्वात्मानि परे ॥ ६॥
रहसि वसतिर्यस्य प्रेमास्पदं न जनाकुले
     श्रुतिरपि तथाऽऽचष्टे ध्यानोत्सुकान्यतिनः प्रति ।
अयमपि गुरुश्वासुप्नेरामृतेरिति वाक्यवि -
     त्प्रविततमिह ध्यानासक्तः समस्ति न संशयः ॥ ७॥
भावं भावं परमपदवीं तत्त्वसाक्षात्कृतिं यः
     संपद्याऽस्ते न खलु विशयोऽत्रेत्यहं प्रब्रवीमि ।
जीवन्मुक्तः क्षपयति परं नूनमारब्धकर्म
     च्छान्दोग्यस्थं प्रवदति तथा तस्य तावद्वचो हि ॥ ८॥
रत्वा ब्रह्मणि नित्यतृप्तिमनिशं योऽसौ महादेशिकः
     प्राप्तोऽतो न हि किञ्चिदस्ति सफलं कार्ये परं यद्यपि ।
``सक्ताः कर्मणि''पद्यवित्तु तदपि स्वाम्यर्चनाद्याः क्रियाः
     कुर्वन्नस्ति हि लोकसङ्ग्रहमहो कर्तुं सदा प्रोत्सुकः ॥ ९॥
तीक्ष्णा बुद्धिर्यदीया कठिननयशिलां स्फोटयत्येव नूनं
     वाक्यार्थोक्तिः सभायां प्रचकितमनसः कोविदान्संविधत्ते ।
प्रश्नान्शास्त्रे यदीयाननितरसुलभान्यः समाघातुमीष्टे
     ताद्द्रान्विद्वान्न चाभून्न हि भवति तथा नो भविष्यत्यवन्याम् ॥ १०॥
स्वाधीना मणिदीधितिप्रभृतयो ग्रन्थाश्च गादाधरी
     नृत्यन्ती बहुधा परिष्कृतियुता यत्कण्ठरङ्गस्थले ।
तस्मादेव महान्सुदेशिकवरो विद्वत्सभायां नये
     तर्काख्ये विदधाति विस्मयकरं शार्दूलविक्रीडितम् ॥ ११॥
मिथ्यात्वं जगतः सुयुक्तिजटिलाः यद्वाग्झरीः शाङ्करीः
     लोकानां स्पृशतां प्रभाति सुतरां तद्भाल्यरूपे सदा ।
गङ्गास्रोतसि मज्जनं विदधतः श्रीदेशिकेन्द्रप्रभोः
     स्वान्तान्तर्मलमेव नास्ति परमानन्दः समस्ति प्रभान् ॥ १२॥ 
योगीन्द्रोऽयं भवे प्राच्यधिगतनिगमं संस्मरन्नेव बाल्ये
     ``आचार्याद्धैव विद्या'' श्रुतिवचनवशः सद्गुरोर्न्यायशास्त्रम् ।
श्रीमत्प्रस्थानविद्यामपि च पठितवान्जैमिनीयं नयं च
     शाब्दीं विद्यामवैतीति कथमपरथा तादॄशी वैदुषी स्यात् ॥ १३॥
गिरीशः सद्भाष्यं व्यतनुत पुरा शङ्करमहा-
     ऽवतारं प्राप्तः सन्नपरथयितुं भाष्यहृदयम् ।
जनं ज्ञात्वोद्युक्तं पुनरपि महादेशिकतया-
     वतीर्णो निष्कृष्टामवगमयितुं भाष्यसरणिम् ॥ १४॥
पाठनरीतिर्यस्याऽवितरसुलभेति तच्छिष्यतां प्राप्ताः ।
आचक्षीरन् सुदृढं तद्विषये साक्षिभूतोऽहम् ॥ १५॥
दक्षोऽसौ विषयोपपादन इति श्रुत्वा कलार्थिव्रजाः
     शीघ्रं श‍ृङ्गगिरिं समेत्य सहसा यच्छिष्यभावं गताः ।
यच्छक्तिं महतीमहो प्रवचने दृष्ट्वा गता विस्मयं
     पूर्वं यावगतिर्गुरौ प्रमितितां तस्यां हि निश्चिन्वते ॥ १६॥ 
तत्तादृक्षे सच्चिदानन्दविलासमन्दिरोनित्यम् ।
शुद्धान्पूज्यान्मन्त्रान्जापं जापं नित्यसुखे लग्नः ॥ १७॥
लगति सततं स्वान्तं शुद्धे परमात्मनि यस्य तु
     व्यवहृतिरपि श्रेष्ठा गीतोदितस्थितधीसमा ।
अशनवसनप्रष्ठान्हेतून्शरीरपरिस्थिते-
     र्ने गणयति यः प्रारब्धाऽऽख्या कृतिस्तु नयेदिति ॥ १८॥ 
जानेऽहं यतिराडसावुपरतः प्रत्ने भवे सन्ततं
     योगाभ्यासरतो मृतस्त्वनियतात्प्रारब्धकर्मक्षयात् ।
नाप्तो योगफलं च कृष्णवचनप्रामाण्यतो योगिनां
     वंशे जात इति ध्रुवं ह्यपरथा त्वेवंविधः स्यात्कथम् ॥ १९॥
विध्यैकदेशमपि यत्सविधादनाप्त्वा
     यत्सन्निधिस्थितिमहं समुपेत एव ।
धन्यं स्वकं ध्रुवमहो सततं विजानन्
     कत्थे खलु प्रविदुषां सविधे सदा माम् ॥ २०॥
जय जय देशिकवर्य दर्शनमात्रेण जनान्प्रीणयसि ।
भावत्कपादनलिनं मच्चित्ते भासतां सततम् ॥ २१॥
यं पुत्रं प्राप्य विद्वान्स्वकृतसुकृततः प्राग्भवे गोपशास्त्री
     लक्ष्म्यम्बाख्या सती च ध्रुवममितमुदं प्राप्य चेत्थं जगत्याम् ।
प्रख्यातिं प्राप्तवन्तौ सुजनिसफलतां यातवन्ताविमौ द्वौ
     प्राचीने जन्मनीमावतिसुकृतवयं साध्वकार्ष्टा सुभक्त्या ॥ २२॥
ते विद्वांसः सुकृतिपुरुषा जन्मसाफल्यवन्तः
     शास्त्राम्बोधेः सुतरणफलं नित्यमासादयन्तः ।
येऽमी नित्यं सहनिवसतिं देशिकेन्द्रेण शास्त्रे
     वादाख्यां च प्रविततकथां कुर्वते मोदमानाः ॥ २३॥
तद्देशिकस्वामिगुरोः समासीत्पितामहः पण्डिततल्लजो हि ।
शब्दादिशास्त्रे गुरुवैदुषी च ततोऽभवद्धेतुसमं हि कार्यम् ॥ २४॥ 
मां भाति चैवं यतिभावयुक्तः
     सन्त्यज्य गेहं परिधावतीति ।
सर्वान् जनान् बोधयितुं मुनीन्द्रः
     संन्यासमाप्नोत्परिधाविवर्षे ॥ २५॥
स ह्यार्तानां सुरक्षानियमनविधिना नाशयन्नार्तिवृन्दं
     जिज्ञासुभ्यश्च मोक्षप्रदमतिजनकं शास्त्रमध्यापयन्हि ।
अर्थार्थिभ्यो यथेष्ठं धनवितरणतः स्वेष्टवस्तु प्रयच्छन्
     ज्ञानिभ्यो ज्ञाननिष्ठामतिसुदृढतरां सन्ददद्भाति नित्यम् ॥ २६॥
दातव्या ब्रह्मविद्या ह्युपसदनविधिं पालयद्भ्यो जनेभ्यो
     मत्वेत्थं देशिकेन्द्रो यतिवरनिकरान्पाठयन्सूत्रभाष्यम् ।
अम्बायाश्चन्द्रमौलेः परिचरणविधौ व्यग्रतां देशिकस्य
     प्रेक्षं प्रेक्षं समर्थो मनसि समुदितं विस्मयं नो नियन्तुम् ॥ २७॥
नक्षत्रमालां बहुवृत्तशोभां संन्यासवर्षप्रमितां तु सङ्ख्याम् ।
प्राप्तां कृतां भक्तिवशात्सुवृत्तां श्रीवेङ्कटेशो गुरवेऽर्पयामि ॥ २८॥
इति श्रीवेङ्कटेशशास्त्रिणा विरचिता श्रीचन्द्रशेखरनक्षत्रमाला समाप्ता ।
Share
Now Playing