श्री गणेशाय नमः ।
द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन दयया कुरु सादनमन्तरायस्य ॥१ ॥
इन्दुकला कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपञ्चस्य ॥२ ॥
वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदन्तं आखुं विदधासि विपदन्तम् ॥३ ॥
लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिचारुदृशा ॥४ ॥
आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ्घ्रियुग ।
सुखधृतदण्डरसालो नागजभालोऽतिभासि विभो ॥५ ॥
अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥६ ॥
रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्बुजे विशतु ॥७ ॥