गायत्री अष्टकम स्तोत्र अर्थ सहित, आदि शंकराचार्य कृत शक्तिशाली इच्छापूर्ति देवी स्तुति | Gayatri Ashtakam Stotram Sanskrit Lyrics with Meaning, Wish-Fulfilling Devi Ashtak Stotra

गायत्री अष्टकम स्तोत्र अर्थ सहित, आदि शंकराचार्य कृत शक्तिशाली इच्छापूर्ति देवी स्तुति | Gayatri Ashtakam Stotram Sanskrit Lyrics with Meaning, Wish-Fulfilling Devi Ashtak Stotra

Share:
विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां
     नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ १ ॥
जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां
     तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ २ ॥
मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
     विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ३ ॥
काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान्
     बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् ।
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ४ ॥
ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
     सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।
मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ५ ॥
सन्ध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
     ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् ।
राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ६ ॥
वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां
     तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।
नासालंकृतमौक्तिकेन्दुकिरणैः सायन्तमश्छेदिनीं
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ७ ॥
पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां
     रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् ।
वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं
     गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ८ ॥
हत्यापानसुवर्णतस्करमहागुर्वङ्गनासङ्गमान्
     दोषाञ्छैलसमान् पुरन्दरसमाः सञ्च्छिद्य सूर्योपमाः ।
गायत्रीं श्रुतिमातुरेकमनसा सन्ध्यासु ये भूसुरा
     जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीमच्छङ्कराचार्यविरचितं गायत्र्यष्टकं सम्पूर्णम् ।
Share
Now Playing