श्री गणेश संपूर्ण पूजा विधि | Ganapati Puja Vidhi in Sanskrit To Gain Shri Ganesha Blessings

श्री गणेश संपूर्ण पूजा विधि | Ganapati Puja Vidhi in Sanskrit To Gain Shri Ganesha Blessings

Share:
ब्रह्मोवाच ।
श‍ृणु राजन् । प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥ ६॥
यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।
ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥ ७॥
सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।
गणेश पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः ॥ ८॥
कृष्णपक्षे चतुर्थ्याञ्च निशि चन्द्रोदयेऽपि च ।
नृप उवाच ।
कथं सम्पूजयेद् ब्रह्मन् । देवदेवं गजाननम् ॥ ९॥
विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।
ब्रह्मोवाच ।
नित्यकर्म समाप्याऽथ निशायामुदये विधोः ॥ १०॥
शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते ।
तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः ॥ ११॥
स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं सौवर्णकलशान्वितम् ॥ १२॥
तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।
तस्योपरि न्यसेद् वस्त्रं क्षौमं वा शक्तिसंयुतः ॥ १३॥
तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।
तत्र मूर्तिं गणेशस्य सौवर्णी लक्षणान्विताम् ॥ १४॥
ध्यानम् -
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं ज्वलत्पावकलोचनम् ॥ १५॥
आखुपृष्ठसमारूढञ्चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतञ्च चिन्तयेत् तं गजाननम् ॥ १६॥
आवाहनम् -
आगच्छ देवदेवेश । सङ्कटान्मां निवारय ।
यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव ॥ १७॥ 
(पुरुषसूक्ते
अथवा
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥)
आसनम् -
गणाधीश । नमस्तेऽस्तु सर्वसिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटान्मां निवारय ॥ १८॥ 
(अथवा
पुरुष एवेदगुं सर्वं यद्भूतं यच्छ भव्यम् ।
उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥)
पाद्यम् -
उमापुत्र । नमस्तेऽस्तु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ १९॥ 
(अथवा
एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥)
अर्घ्यम् -
लम्बोदर । नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश । सङ्कटं मे निवारय ॥ २०॥ 
(अथवा
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ।
ततो विश्वङ्व्यक्रामत् साशनानशने अभि ॥)
आचमनीयम् -
गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।
गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय ॥ २१॥ 
(अथवा
तस्माद्विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमि मथो पुरः ॥)
पञ्चामृतम् -
पयो दधि घृतञ्चैव शर्करामधुसंयुतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ २२॥ 
(अथवा
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥)
स्नानम् -
नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ २३॥ 
(अथवा
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः ॥)
वस्त्रयुग्मम् -
इभवक्त्र । नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष । सङ्कटं मे निवारय ॥ २४॥ 
(अथवा
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥)
यज्ञोपवीतम् -
विनायक । नमस्तुभ्यं नमः परशुधारिणे ।
उपवीत गृहाणेदं सङ्कटां मे निवारय ॥ २५॥ 
(अथवा
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूगुँस्तागंश्चक्रे वायव्यान्  आरण्यान् ग्राम्याश्चये ॥)
चन्दनम् -
ईशपुत्र । नमस्तुभ्यं नमो मूषकवाहन ।
चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥ २६॥ 
(अथवा
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ॥)
अक्षताः -
घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ २७॥ 
(अथवा
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥)
पुष्पम् -
चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः ।
गृहाण त्वं गणाध्यक्ष । सङ्कटं मे निवारय ॥ २८॥ 
(अथवा
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥)
धूपम् -
लम्बोदर । महाकाय । धूम्रकेतो । सुवासितम् ।
धूपं गृहाण देवेश । सङ्कटं मे निवारय ॥ २९॥ 
(अथवा
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू कावूरु पादावुच्येते ॥)
दीपम् -
विघ्नान्धकारसंहारकारक । त्रिदशाधिप । ।
दीपं गृहाण देवेश । सङ्कटं मे निवारय ॥ ३०॥ 
(अथवा
ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः ।
ऊरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥)
नैवेद्यम् -
मोदकापूपलड्डूकपायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव । नैवेद्यं प्रतिगृह्यताम् ॥ ३१॥ 
(अथवा
चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥)
फलम् -
नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश । सङ्कटं मे निवारय ॥ ३२॥ 
(अथवा
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् ॥)
ताम्बूलम् -
क्रमुकैला लवङ्गादि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव । सङ्कटं मे विनाशय ॥ ३३॥ 
(अथवा
पूगिफलं सताम्बूलं नागवल्लि दलैर्युतम् ।
ताम्बूलं गृह्यतां देव येल लवङ्ग संयुक्तम् ॥)
दक्षिणा -
सर्वप्रीतिकरं देव । हिरण्यं सर्वसिद्धिदम् ।
दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय ॥ ३४॥ 
(अथवा
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ 
वा
हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः ।
अनंत पुण्य फलदा अथः शांतिं प्रयश्च मे ॥)
एकविंशतिदूर्वाङ्कुरुमर्पण् ।
ततो दूर्वाङ्कुरान् गृह्य विंशत्येकञ्च भक्तितः ।
एभिर्नामपदेर्देवमर्चयेत् सुसमाहितः ॥ ३५॥
दूर्वापणमन्त्रा -
गणाधिपतये नमः ।१। उमापुत्राय नमः ।२। अघनाशनाय नमः ।३।
एकदन्ताय नमः ।४। इभवक्त्राय नमः ।५। मूषकवाहनाय नमः ।६।
विनायकाय नमः ।७। ईशपुत्राय नमः ।८। सर्वसिद्धिप्रदाय नमः ।९।
लम्बोदराय नमः ।१०। वक्रतुण्डाय नमः ।११। मोदकप्रियाय नमः ।१२।
विघ्नविध्वंसकर्त्रे नमः ।१३। विश्ववन्द्याय नमः ।१४।
अमरेशाय नमः ।१५। गजकर्णाय नमः ।१६।
नागयज्ञोपवीतिने नमः ।१७। भालचन्द्राय नमः ।१८।
परशुधारिणे नमः ।१९। विघ्नाधिपाय नमः ।२०। विद्याप्रदाय नमः ।२१।
नीराजनम् -
कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।
नीराजनं गृहाणेश । सङ्कटान्मां विमोचय ॥ ३६॥ 
(अथवा
ॐ आ रात्रि पार्थिवँ रजः पितुरप्रायि धामभिः ।
दिवः सदाँसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ।)
पुष्पाञ्जलि -
चम्पकाशोकबकुलपारिजातभवैः शुभैः ।
पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय ॥ ३७॥ 
(अथवा
यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥)
स्तुतिः -
त्वमेव विश्वं सृजसीभवक्त्र । त्वमेव विश्वं परिपासि देव । ।
त्वमेव विश्वं हरसेऽखिलेश । त्वमेव विश्वात्मक । आविभासि ॥ ३८॥
नमस्कारा -
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तिविमोक्षदक्षं, विद्याप्रदं वेदनिधानमाद्यम् ॥ ३९॥
प्रदक्षिणा -
एवं स्तुवीत विधिवत प्रणमेत पुनः पुनः ।
प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥ ४०॥
प्रार्थना -
ये त्वामसम्पूज्य गणेश । नूनं वाञ्छन्ति मूढा विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकलः प्रभावः ॥ ४१॥
वायनं -
आचार्यस्त्वं द्विजाध्यक्ष । सर्वसिद्धिप्रदायक । ।
वायनं गृह्यतां ब्रह्मन् । सङ्कटान्मां निवारय ॥ ४२॥
विशेषार्घ्यं -
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।
विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय ॥ ४३॥
॥ इति षोडशोपचारार्चनम् ॥
गणेशमन्त्रार्चनम् -
ॐ नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा ।
इन्द्रादि लोकपालाँश्च समन्तात् पूजयेत् सुधीः ॥ ४४॥
पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।
भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥ ४५॥
ततो दूर्वाङ्कुरान्गृह्य विंशत्येकञ्च भक्तितः ।
एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥ ४६॥
गणाधिप । नमस्तुभ्यमुमापुत्राभयप्रद । ।
एकदन्तेभवक्त्रेति तथा मूषकवाहन । ॥ ४७॥
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक । ।
लम्बोदर । नमस्तुभ्यं वक्रतुण्डाघनाशन । ॥ ४८॥
विघ्नविध्वंसकर्तेति विश्ववन्द्यामरेश्वर । ।
गजवक्र । नमस्तुभ्यं नागयज्ञोपवीतिने । ॥ ४९॥
भालचन्द्र । नमस्तुभ्यं नमः परशुधारिणे ।
विघ्नाधिप । नमस्तुभ्यं सर्वविद्याप्रदायक ॥ ५०॥
एवं सम्पूजयेद्देवं दूर्वाभिश्च पृथक् पृथक् ।
यदुद्दिश्य कृतं सम्यग् यथाशक्ति प्रपूजनम् ॥ ५१॥
तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।
विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥ ५२॥
त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।
शत्रूणां बुद्धिनाशञ्च मित्राणामुदयं कुरु ॥ ५३॥
इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।
ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती ॥ ५४॥
मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे ।
लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥ ५५॥
रक्तवस्त्रेण सञ्च्छाद्य स्वाचार्याय निवेदयेत् ।
गणाधिप । नमस्तुभ्यं सर्वसङ्कल्पसिद्धिद । ॥ ५६॥
वायनस्य प्रदानेन सङ्कटान्मां निवारय ।
तिथ्यर्घ्यं -
कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥ ५७॥
तिथीनामुत्तमे । देवि । गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ५८॥
देवार्घ्यं -
लम्बोदर । नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ५९॥
चन्द्रार्घ्यं -
चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ।
क्षारोदार्णवसम्भूत । अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ६०॥
ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।
स्वयं भुञ्जीत तच्छेषं ब्राह्मणभ्यो यदर्पितम् ॥ ६१॥
सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।
इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥ ६२॥
इति श्रीगणेशपूजाविधि सम्पूर्णा ॥
Share
Now Playing