श्रीगणेशाय नमः ।
नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १॥
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २॥
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३॥
न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४॥
इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥
← Previous
कूर्म स्तोत्र (अर्यमा कृत)- Kurma Stotram Sanskrit Lyrics by Aryama (Lord Vishnu's 2nd Avatar)
Next →
वराह अष्टकम स्तोत्र - Varaha Ashtak Stotra Sanskrit Lyrics (Lord Vishnu's 3rd Avatar)
Discover Hidden Names
16 Names of Lord Vishnu (विष्णु भगवान के १६ नाम)
▶ Play Now