श्रीगणेशाय नमः ।
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥
फलशृति
एतानि नव नामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥
सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः ।
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् ॥
सर्पदर्शनकाले वा पूजाकाले च यः पठेत् ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥
ॐ नागराजाय नमः प्रार्थयामि नमस्करोमि ॥
इति श्री नवनाग स्तोत्र ।