श्री गणेशाय नमः ।
श्रीपराङ्कुशयोगीन्द्र शठारिप्रमुखान् गुरून् ।
मंगलाशासनपरान् महिताननिशं भजे ॥
जगज्जन्मादिलीलाय जगदानन्दहेतवे ।
जगच्चक्षुर्निवासाय श्रीनृसिंहाय मंगलं ॥
नवनारसिंह मूर्तयः
ज्वालाऽहोबल मालोल क्रोड कारञ्ज भार्गवाः ।
योगानन्द च्छत्रवट पावना नवमूर्तयः ॥
१) ज्वाला नरसिंह - मंगल देव
हिरण्यस्तम्भसम्भूति प्रख्यात परमात्मने ।
प्रह्लादार्तिमुषे ज्वालानरसिंहाय मंगलं ॥ १ ॥
२) अहोबल नरसिंह - बृहस्पति (गुरु) देव
श्रीशठारियतीन्द्रादि योगिहृत्पद्मभानवे ।
सर्वत्र परिपूर्णायाऽहोबिलेशाय मंगलं ॥ २ ॥
३) मालोल नरसिंह - शुक्र देव
वारिजावारितभयैर्वाणीपतिमुखैः सुरैः ।
महिताय महोदार मालोलायाऽस्तु मंगलं ॥ ३ ॥
४) वराह (क्रोड) नरसिंह - राहु देव
वराहकुण्डे मेदिन्यै वाराहार्थप्रदायिने ।
दन्तलग्न हिरण्याक्ष दंष्ट्रसिंहाय मंगलं ॥ ४ ॥
५) कारञ्ज नरसिंह - चन्द्र देव
गोभूहिरण्यनिर्विण्णगोभिलज्ञानदायिने ।
प्रभञ्जन शुनासीर कारञ्जायाऽस्तु मंगलं ॥ ५ ॥
६) भार्गव नरसिंह - सूर्य देव
भार्गवाख्य तपस्वीश भावनाभावितात्मने ।
अक्षय्यतीर्थतीरस्थ भार्गवायाऽस्तु मंगलं ॥ ६ ॥
७) योगानन्द नरसिंह - शनि देव
चतुराननचेतोऽब्जचित्रभानुस्वरूपिणे ।
वेदाद्रिगह्वरस्थाय योगानन्दाय मंगलं ॥ ७ ॥
८) छत्रवट नरसिंह - केतु देव
हाहाहूह्वाख्यगन्धर्वनृत्तगीतहृतात्मने ।
भवहन्तृ तटच्छत्र वटसिंहाय मंगलं ॥ ८ ॥
९) पावन नरसिंह - बुद्ध देव
भारद्वाज महायोगि महापातकहारिणे ।
तापनीयरहस्यार्थ पावनायाऽस्तु मंगलं ॥ ९ ॥
मंगलाशासनमिदं मानिवास मुनीरितम् ।
महनीयं पठन् शृण्वन् मंगलायतनं भवेत् ॥
इति श्री नवनारसिंह मंगलश्लोकाः ।