Rin Vimochana Angaraka Stotram Sanskrit Lyrics - Debt Removal Mangal (Mars) Stotra – ऋण विमोचन अंगारक स्तोत्र कर्ज मुक्ति मंगल स्तुति

Rin Vimochana Angaraka Stotram Sanskrit Lyrics - Debt Removal Mangal (Mars) Stotra – ऋण विमोचन अंगारक स्तोत्र कर्ज मुक्ति मंगल स्तुति

Share:
स्कन्द उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।
ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥
अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।
ध्यानम् –
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम् ॥ १ ॥
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ २ ॥
अथ स्तोत्रम् –
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ ३ ॥
लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ ४ ॥
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ५ ॥
भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ६ ॥
रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ७ ॥
ऋणरेखाः प्रकर्तव्याः दग्धाङ्गारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ८ ॥
ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न सन्देहो ऋणहीनो धनी भवेत् ॥ ९ ॥
भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ १० ॥
शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ ११ ॥
मूलमन्त्रः –
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ १२ ॥
अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १३ ॥
इति ऋण विमोचन अङ्गारक स्तोत्रम् ॥
Share
Now Playing