ध्यानम् –
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥
अथ स्तोत्रम् –
देवताकार्यसिद्ध्यर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ १ ॥
लक्ष्म्यालिङ्गित वामाङ्कं भक्तानां वरदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ २ ॥
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ३ ॥
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ४ ॥
सिंहनादेन महता दिग्विदिग्भयनाशनम् । दिग्दन्ति
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ५ ॥
प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ६ ॥
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ७ ॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ८ ॥
इत्थं यः पठते नित्यं ऋणमोचन सिद्धये । सञ्ज्ञितम्
अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात् ॥ ९ ॥
सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा ॥ १० ॥
इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।