वराह पञ्चकं स्तोत्र - Varaha Panchakam Stotram Sanskrit Lyrics (Lord Vishnu's 3rd Avatar)

वराह पञ्चकं स्तोत्र - Varaha Panchakam Stotram Sanskrit Lyrics (Lord Vishnu's 3rd Avatar)

प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं
सैंह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च ।
अंहस्संहारदक्षं विधिभवविहगेन्द्रेन्द्रचन्द्रादिवन्द्यं
रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥

वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं
सीमातीतगुणं फणीन्द्रफणगश्रीमान्यपादाम्बुजम् ।
कामाद्याकरचक्रशङ्खसुवरोद्दामाभयोद्यत्करं
सामादीड्यवराहरूपममलं हे मानसे संस्मर ॥ २॥

कोलाय लसदाकल्पजालाय वनमालिने ।
नीलाय निजभक्तौघपालाय हरये नमः ॥ ३॥

धात्रीं शुभगुणपात्रीमादायाशेषविबुधमादाय ।
शेषे तमिममदोषे धातुं हातुं च शङ्किनं शङ्के ॥ ४॥

नमोऽस्तु हरये युक्तिगिरये निर्जितारये ।
समस्तगुरवे कल्पतरवे परवेदिनाम् ॥ ५॥

इति श्रीमद्वादिराजपूज्यचरणविरचितं श्रीवराहपञ्चकं
सम्पूर्णम् ।

भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Now Playing