अनन्त स्तव (सुभद्रा कृत) - Ananta Stava Stotra by Krishna's Sister Subhadra Sanskrit Lyrics

अनन्त स्तव (सुभद्रा कृत) - Ananta Stava Stotra by Krishna's Sister Subhadra Sanskrit Lyrics

येनेदं जगदखिलं धृतं विधात्रा
    विश्वं यज्जठरगतं युगान्तकाले ।
यो वेदानवति तमेत्य मत्स्यरूपं
    तं देवं शरणमहं गतोऽस्म्थनन्तम् ॥ १॥

यो लोकानसृजदनाद्यनन्तरूपो
    विश्वात्मा विगततमोरजोभिरीड्यः ।
घृत्वेमां कमठवपुमेहीं सृजन्तं
    तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ २॥

यः पृथ्वीमसुरभयाद्रसातलस्था-
    मुद्धर्तुं खुरनिकरक्षतासुरौघः ।
वाराहीं तनुमभजत् त्रयीनिवास-
    स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ३॥

हैरण्यं कुलिशदृढं पुरा नखाग्रै-
    र्वक्षो यः सपदि विदारयाश्चकार ।
रह्लादप्रियहितकृन्नृसिंहरूप-
    स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ४॥

स्वर्लोकस्थितिकरणाय यो धरित्री
    त्रेधा विक्रमितुमयाचतासुरेशम् ।
भूत्वा वामनतनुरीश्वरं सुराणां
    तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ५॥

यः क्षत्रं निहितपरश्वधेन सर्वं
    छित्वा तत्क्षतजजलेन कर्म पित्र्यम् ।
चक्रे विक्रमविभवैकसम्पदीड्य-
    स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ६॥

यो लोकत्रयवनवह्निमीश्वराणा-
    मीशानो दशवदनं रणे निहन्तुम् ।
रामो दाशरथिरभूदुदारवीर्य-
    स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ७॥

यः पृथ्वीमसुरभरातिभङ्गुरार्ता-
    मुद्धर्तुं मुसलहलायुधो बभूव ।
कालिन्दीकर्षणदर्शितातिवीर्य-
    स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ८॥

कंसादींस्त्रिदशरिपूनपाचिकीर्षु-
    र्यः पृथ्व्यामिह यदुनन्दनो वभूव ।
बालार्कयुतिविकसत्सरोजवक्त्रं
    तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ९॥

पाषण्डान् कलिकलुषीकृत स्वधर्मा-
    निश्शेषं सपदि निराकरिष्णुरीशः ।
यः कल्की भवति नितान्तघोररूपं
    तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ १०॥

इति सुभद्राकृतः अनन्तस्तवः सम्पूर्णः ।

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing