पलाश पुष्पसङ्काशं तारकाग्रह मस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ १ ॥
धूम्र वर्णां ध्वजाकारं द्विभुजं वरदाङ्गदम् ।
वैढूर्याभरणं चैव वैढूर्यमकुटं फणिम् ॥ २ ॥
अन्त्यग्रहो महाशीर्षि सूर्यारिः पुष्पवर्ग्रही ।
गृध्रानन गतं नित्यं ध्यायेत् सर्वफलास्तये ॥ ३ ॥
पातुनेत्र पिङ्गलाक्षः श्रुतिमे रक्तलोचनः ।
पातुकण्ठं चमे केतुः स्कन्दौ पातुग्रहाधिपः ॥ ४ ॥
प्रणमामि सदादेवं ध्वजाकारं ग्रहेश्वरम् ।
चित्राम्बरधरं देवं तं केतुं प्रणमाम्यहम् ॥ ५ ॥