108 Names Krishna Ashtottara Shatanama Stotram Sanskrit Lyrics – श्री कृष्ण अष्टोत्तरशतनाम स्तोत्र (भगवान कृष्ण के १०८ नाम)

108 Names Krishna Ashtottara Shatanama Stotram Sanskrit Lyrics – श्री कृष्ण अष्टोत्तरशतनाम स्तोत्र (भगवान कृष्ण के १०८ नाम)

Share:
श्रीगोपालकृष्णाय नमः ॥
श्रीशेष उवाच ॥
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य।
श्रीशेष ऋषिः ॥ अनुष्टुप् छन्दः ॥ श्रीकृष्णोदेवता ॥
श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदा शङ्खाद्युदायुधः ॥ २ ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥
पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥
षोडशस्त्री सहस्रेश स्रिभङ्गि मधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः ॥ ६ ॥
वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥
उत्तानतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ॥ ८ ॥
इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥
मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ॥ ११ ॥
श्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥ १२ ॥
मुष्टिकासुरचाणूरमहायुद्धविशारदः ।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥ १३ ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥
वृषभासुरविध्वंसी बाणासुरबलान्तकः ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परम्ब्रह्म पन्नगाशनवाहनः ॥ १९ ॥
जलक्रीडासमासक्त गोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥
सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः ।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥
कृष्णनामामृतं नाम परमानन्दकारकम् ।
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ २२ ॥
॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्वरसंवादे
धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Share
Now Playing