Purushottam Sahasranamam Stotram (1000 Names of Lord Vishnu) Sanskrit Lyrics – श्री पुरुषोत्तम सहस्रनाम स्तोत्र (भगवान विष्णु के १००० नाम)

Purushottam Sahasranamam Stotram (1000 Names of Lord Vishnu) Sanskrit Lyrics – श्री पुरुषोत्तम सहस्रनाम स्तोत्र (भगवान विष्णु के १००० नाम)

Share:
विनियोगः
पुराणपुरुषो विष्णुः पुरुषोत्तम उच्यते ।
नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ १॥
यस्य प्रसादाद्वागीशाः प्रजेशा विभवोन्नताः ।
क्षुद्रा अपि भवन्त्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ॥ २॥
अनन्ता एव कृष्णस्य लीला नामप्रवर्तिकाः ।
उक्ता भागवते गूहाः प्रकटा अपि कुत्रचित् ॥ ३॥
अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिणः ।
सहस्रं यैस्तु पठितैः पठितं स्याच्छुकामृतम् ॥ ४॥
कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपितः ।
गायत्री च तथा छन्दो देवता पुरुषोत्तमः ॥ ५॥
विनियोगः समस्तेषु पुरुषार्थेषु वै मतः ।
बीजं भक्तप्रियः शक्तिः सत्यवागुच्यते हरिः ॥ ६॥
भक्तोद्धरणयत्नस्तु मन्त्रोऽत्र परमो मतः ।
अवतारितभक्तांशः कीलकं परिकीर्तितम् ॥ ७॥
अस्त्रं सर्वसमर्थश्च गोविन्दः कवचं मतम् ।
पुरुषो ध्यानमत्रोक्तः सिद्धिः शरणसंस्मृतिः ॥ ८॥
अधिकारलीला
श्रीकृष्णः सच्चिदानन्दो नित्यलीलाविनोदकृत् ।
सर्वागमविनोदी च लक्ष्मीशः पुरुषोत्तमः ॥ ९॥
आदिकालः सर्वकालः कालात्मा माययावृतः ।
भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः ॥ १०॥
नामलीलापरो विष्णुर्व्यासात्मा शुकमोक्षदः ।
व्यापिवैकुण्ठदाता च श्रीमद्भागवतागमः ॥ ११॥
शुकवागमृताब्धीन्दुः शौनकाद्यखिलेष्टदः ।
भक्तिप्रवर्तकस्त्राता व्यासचिन्ताविनाशकः ॥ १२॥
सर्वसिद्धान्तवागात्मा नारदाद्यखिलेष्टदः ।
अन्तरात्मा ध्यानगम्यो भक्तिरत्नप्रदायकः ॥ १३॥
मुक्तोपसृप्यः पूर्णात्मा मुक्तानां रतिवर्धनः ।
भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारकः ॥ १४॥
भक्तस्मयप्रणेता च भक्तवाक्परिपालकः ।
ब्रह्मण्यदेवो धर्मात्मा भक्तानां च परीक्षकः ॥ १५॥
आसन्नहितकर्ता च मायाहितकरः प्रभुः ।
उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारकः ॥ १६॥
सर्वतः पाणवपतिः परीक्षिच्छुद्धिकारणम् ।
गूहात्मा सर्ववेदेषु भक्तैकहृदयङ्गमः ॥ १७॥
कुन्तीस्तुत्यः प्रसन्नात्मा परमाद्भुतकार्यकृत् ।
भीष्ममुक्तिप्रदः स्वामी भक्तमोहनिवारकः ॥ १८॥
सर्वावस्थासु संसेव्यः समः सुखहितप्रदः ।
कृतकृत्यः सर्वसाक्षी भक्तस्त्रीरतिवर्धनः ॥ १९॥
सर्वसौभाग्यनिलयः परमाश्चर्यरूपधृक् ।
अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् ॥ २०॥
बीजसंस्कारकर्ता च परीक्षिज्जानपोषकः ।
सर्वत्रपूर्णगुणकः सर्वभूषणभूषितः ॥ २१॥
सर्वलक्षणदाता च धृतराष्ट्रविमुक्तिदः ।
सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरकः ॥ २२॥
लीलाव्यामोहकर्ता च कालधर्मप्रवर्तकः ।
पाणवानां मोक्षदाता परीक्षिद्भाग्यवर्धनः ॥ २३॥
कलिनिग्रहकर्ता च धर्मादीनां च पोषकः ।
सत्सङ्गजानहेतुश्च श्रीभागवतकारणम् ॥ २४॥
प्राकृतादृष्टमार्गश्च॥॥॥॥॥॥ चोन्तिनुएद्
ज्ञान-साधन-लीला
॥॥॥॥॥॥॥॥॥॥॥॥ श्रोतव्यः सकलागमैः ।
कीर्तितव्यः शुद्धभावैः स्मर्तव्यश्चात्मवित्तमैः ॥ २५॥
अनेकमार्गकर्ता च नानाविधगतिप्रदः ।
पुरुषः सकलाधारः सत्त्वैकनिलयात्मभूः ॥ २६॥
सर्वध्येयो योगगम्यो भक्त्या ग्राह्यः सुरप्रियः ।
जन्मादिसार्थककृतिर्लीलाकर्ता पतिः सताम् ॥ २७॥
आदिकर्ता तत्त्वकर्ता सर्वकर्ता विशारदः ।
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥ २८॥
दशलीलाविनोदी च नानासृष्टिप्रवर्तकः ।
अनेककल्पकर्ता च सर्वदोषविवर्जितः ॥ २९॥
सर्गलीला
वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रदः ।
तीर्थशुद्धैकनिलयः स्वमार्गपरिपोषकः ॥ ३०॥
तीर्थकीर्तिर्भक्तगम्यो भक्तानुशयकार्यकृत् ।
भक्ततुल्यः सर्वतुल्यः स्वेच्छासर्वप्रवर्तकः ॥ ३१॥
गुणातीतोऽनवद्यात्मा सर्गलीलाप्रवर्तकः ।
साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तकः ॥ ३२॥
मायाप्रवर्तकः साक्षी मायारतिविवर्धनः ।
आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावनः ॥ ३३॥
रजःप्रवर्तको ब्रह्मा मरीच्यादिपितामहः ।
वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मकः ॥ ३४॥
अनेकसृष्टिकर्ता च दशधासृष्टिकारकः ।
यज्ञाङ्गो यज्ञवाराहो भूधरो भूमिपालकः ॥ ३५॥
सेतुर्विधरणो जैत्रो हिरण्याक्षान्तकः सुरः ।
दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकः ॥ ३६॥
देवाभयप्रदाता च वैकुण्ठाधिपतिर्महान् ।
सर्वगर्वप्रहारी च सनकाद्यखिलार्थदः ॥ ३७॥
सर्वाश्वासनकर्ता च भक्ततुल्याहवप्रदः ।
काललक्षणहेतुश्च सर्वार्थज्ञापकः परः ॥ ३८॥
भक्तोन्नतिकरः सर्वप्रकारसुखदायकः ।
नानायुद्धप्रहरणो ब्रह्मशापविमोचकः ॥ ३९॥
पुष्टिसर्गप्रणेता च गुणसृष्टिप्रवर्तकः ।
कर्दमेष्टप्रदाता च देवहूत्यखिलार्थदः ॥ ४०॥
शुक्लनारायणः सत्यकालधर्मप्रवर्तकः ।
ज्ञानावतारः शान्तात्मा कपिलः कालनाशकः ॥ ४१॥
त्रिगुणाधिपतिः साङ्ख्यशास्त्रकर्ता विशारदः ।
सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तकः ॥ ४२॥
लौकिकानन्ददाता च ब्रह्मानन्दप्रवर्तकः ।
भक्तिसिद्धान्तवक्ता च सगुणज्ञानदीपकः ॥ ४३॥
आत्मप्रदः पूर्णकामो योगात्मा योगभावितः ।
जीवन्मुक्तिप्रदः श्रीमानन्यभक्तिप्रवर्तकः ॥ ४४॥
कालसामर्थ्यदाता च कालदोषनिवारकः ।
गर्भोत्तमज्ञानदाता कर्ममार्गनियामकः ॥ ४५॥
सर्वमार्गनिराकर्ता भक्तिमार्गैकपोषकः ।
सिद्धिहेतुः सर्वहेतुः सर्वाश्चर्यैककारणम् ॥ ४६॥
चेतनाचेतनपतिः समुद्रपरिपूजितः ।
साङ्ख्याचार्यस्तुतः सिद्धपूजितः सर्वपूजितः ॥ ४७॥
विसर्गलीला
विसर्गकर्ता सर्वेशः कोटिसूर्यसमप्रभः ।
अनन्तगुणगम्भीरो महापुरुषपूजितः ॥ ४८॥
अनन्तसुखदाता च ब्रह्मकोटिप्रजापतिः ।
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ॥ ४९॥
समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।
सुमेरुकोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ॥ ५०॥
कोट्यश्वमेधपापघ्नो वायुकोटिमहाबलः ।
कोटीन्दुजगदानन्दी शिवकोटिप्रसादकृत् ॥ ५१॥
सर्वसद्गुणमाहात्म्यः सर्वसद्गुणभाजनम् ।
मन्वादिप्रेरको धर्मो यज्ञनारायणः परः ॥ ५२॥
आकूतिसूनुर्देवेन्द्रो रुचिजन्माऽभयप्रदः ।
दक्षिणापतिरोजस्वी क्रियाशक्तिः परायणः ॥ ५३॥
दत्तात्रेयो योगपतिर्योगमार्गप्रवर्तकः ।
अनसूयागर्भरत्नमृषिवंशविवर्धनः ॥ ५४॥
गुणत्रयविभागज्ञश्चतुर्वर्गविशारदः ।
नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्करः ॥ ५५॥
सहस्रकवचच्छेदी तपःसारो नरप्रियः ।
विश्वानन्दप्रदः कर्मसाक्षी भारतपूजितः ॥ ५६॥
अनन्ताद्भुतमाहात्म्यो बदरीस्थानभूषणम् ।
जितकामो जितक्रोधो जितसङ्गो जितेन्द्रियः ॥ ५७॥
उर्वशीप्रभवः स्वर्गसुखदायी स्थितिप्रदः ।
अमानी मानदो गोप्ता भगवच्छास्त्रबोधकः ॥ ५८॥
ब्रह्मादिवन्द्यो हंसश्रीर्मायावैभवकारणम् ।
विविधानन्तसर्गात्मा विश्वपूरणतत्परः ॥ ५९॥
यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधकः ।
नानासिद्धान्तगम्यश्च सप्ततन्तुश्च षड्गुणः ॥ ६०॥
प्रतिसर्गजगत्कर्ता नानालीलाविशारदः ।
ध्रुवप्रियो ध्रुवस्वामी चिन्तिताधिकदायकः ॥ ६१॥
दुर्लभानन्तफलदो दयानिधिरमित्रहा ।
अङ्गस्वामी कृपासारो वैन्यो भूमिनियामकः ॥ ६२॥
भूमिदोग्धा प्रजाप्राणपालनैकपरायणः ।
यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शकः ॥ ६३॥
पुरञ्जनो जगन्मित्रं विसर्गान्तप्रदर्शकः ।
प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दनः ॥ ६४॥
स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदः शुभः ।
विजयी ॥॥॥॥॥॥॥॥॥॥ चोन्तिनुएद्
स्थानलीला
॥॥ स्थितिलीलाब्धिरच्युतो विजयप्रदः ॥ ६५॥
स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरधोक्षजः ।
प्रियव्रतप्रियस्वामी स्वेच्छावादविशारदः ॥ ६६॥
सङ्ग्यगम्यः स्वप्रकाशः सर्वसङ्गविवर्जितः ।
इच्छायां च समर्यादस्त्यागमात्रोपलम्भनः ॥ ६७॥
अचिन्त्यकार्यकर्ता च तर्कागोचरकार्यकृत् ।
श‍ऋङ्गाररसमर्यादा आग्नीध्ररसभाजनम् ॥ ६८॥
नाभीष्टपूरकः कर्ममर्यादादर्शनोत्सुकः ।
सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तमः ॥ ६९॥
सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभः ।
मेरुदेवीव्रतफलमृषभो भगलक्षणः ॥ ७०॥
जगत्सन्तर्पको मेघरूपी देवेन्द्रदर्पहा ।
जयन्तीपतिरत्यन्तप्रमाणाशेषलौकिकः ॥ ७१॥
शतधान्यस्तभूतात्मा शतानन्दो गुणप्रसूः ।
वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः ॥ ७२॥
परहंसक्रियागोप्ता योगचर्याप्रदर्शकः ।
चतुर्थाश्रमनिर्णेता सदानन्दशरीरवान् ॥ ७३॥
प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृत् ।
यथावत्कर्मकर्ता च सङ्गानिष्टप्रदर्शकः ॥ ७४॥
आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकः ।
यज्ञरूपमृगः शान्तः सहिष्णुः सत्पराक्रमः ॥ ७५॥
रहूगणगतिज्ञश्च रहूगणविमोचकः ।
भवाटवीतत्त्ववक्ता बहिर्मुखहिते रतः ॥ ७६॥
गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् ।
पुरुषावयवो भूमिविशेषविनिरूपकः ॥ ७७॥
जम्बूद्वीपपतिर्मेरुनाभिपद्मरुहाश्रयः ।
नानाविभूतिलीलाढ्यो गङ्गोत्पत्तिनिदानकृत् ॥ ७८॥
गङ्गामाहात्म्यहेतुश्च गङ्गारूपोऽतिगूढकृत् ।
वैकुण्ठदेहहेत्वम्बुजन्मकृत् सर्वपावनः ॥ ७९॥
शिवस्वामी शिवोपास्यो गूढः सङ्कर्षणात्मकः ।
स्थानरक्षार्थमत्स्यादिरूपः सर्वैकपूजितः ॥ ८०॥
उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रदः ।
सूर्यनारायणो वेदकान्तिरुज्ज्वलवेषधृक् ॥ ८१॥
हंसोऽन्तरिक्षगमनः सर्वप्रसवकारणम् ।
आनन्दकर्ता वसुदो बुधो वाक्पतिरुज्ज्वलः ॥ ८२॥
कालात्मा कालकालश्च कालच्छेदकृदुत्तमः ।
शिशुमारः सर्वमूर्तिराधिदैविकरूपधृक् ॥ ८३॥
अनन्तसुखभोगाढ्यो विवरैश्वर्यभाजनम् ।
सङ्कर्षणो दैत्यपतिः सर्वाधारो बृहद्वपुः ॥ ८४॥
अनन्तनरकच्छेदी स्मृतिमात्रार्तिनाशनः ।
सर्वानुग्रहकर्ता च ॥॥॥॥॥॥॥॥॥॥ चोन्तिनुएद्
पोषण-पुष्टि-लीला
॥॥॥॥॥॥॥॥ मर्यादाभिन्नशास्त्रकृत् ॥ ८५ ॥
कालान्तकभयच्छेदी नामसामर्थ्यरूपधृक् ।
उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तमः ॥ ८६॥
अजामिलमहादुष्टमोचकोऽघविमोचकः ।
धर्मवक्ताऽक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् ॥ ८७॥
सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षजः ।
वैकुण्ठपुरनेता च दाससंवृद्धिकारकः ॥ ८८॥
दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावनः ।
स्वाभिप्रायप्रवक्ता च मुक्तजीवप्रसूतिकृत् ॥ ८९॥
नारदप्रेरणात्मा च हर्यश्वब्रह्मभावनः ।
शबलाश्वहितो गूढवाक्यार्थज्ञापनक्षमः ॥ ९०॥
गूढार्थज्ञापनः सर्वमोक्षानन्दप्रतिष्ठितः ।
पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गतः ॥ ९१॥
शान्तिकर्ता सुहितकृत् स्त्रीप्रसूः सर्वकामधुक् ।
पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ॥ ९२॥
कवचात्मा पालनात्मा वर्मोपचितिकारणम् ।
विश्वरूपशिरश्छेदी त्वाष्ट्रयज्ञविनाशकः ॥ ९३॥
वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायणः ।
वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षकः ॥ ९४॥
अश्वमेधहविर्भोक्ता देवेन्द्रामीवनाशकः ।
संसारमोचकश्चित्रकेतुबोधनतत्परः ॥ ९५॥
मन्त्रसिद्धिः सिद्धिहेतुः सुसिद्धिफलदायकः ।
महादेवतिरस्कर्ता भक्त्यै पूर्वार्थनाशकः ॥ ९६॥
देवब्राह्मणविद्वेषवैमुख्यज्ञापकः शिवः ।
आदित्यो दैत्यराजश्च महत्पतिरचिन्त्यकृत् ॥ ९७॥
मरुतां भेदकस्त्राता व्रतात्मा पुम्प्रसूतिकृत् ।
ऊतिलीला
कर्मात्मा वासनात्मा च ऊतिलीलापरायणः ॥ ९८॥
समदैत्यसुरः स्वात्मा वैषम्यज्ञानसंश्रयः ।
देहाद्युपाधिरहितः सर्वज्ञः सर्वहेतुविद् ॥ ९९॥
ब्रह्मवाक्स्थापनपरः स्वजन्मावधिकार्यकृत् ।
सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचकः ॥ १००॥
हिरण्यकशिपुद्वेषी प्रविष्टात्माऽतिभीषणः ।
शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ॥ १०१॥
दैत्यसिद्धान्तसद्वक्ता तपःसार उदारधीः ।
दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशकः ॥ १०२॥
सद्द्वेषहेतुः सद्द्वेषवासनात्मा निरन्तरः ।
नैष्ठुर्यसीमा प्रह्लादवत्सलः सङ्गदोषहा ॥ १०३॥
महानुभावः साकारः सर्वाकारः प्रमाणभूः ।
स्तम्भप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रमः ॥ १०४॥
विकटास्यो ललज्जिह्वो नखशस्त्रो जवोत्कटः ।
हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारकः ॥ १०५॥
सिंहासनस्थः क्रोधात्मा लक्ष्मीभयविवर्धनः ।
ब्रह्माद्यत्यन्तभयभूरपूर्वाचिन्त्यरूपधृक् ॥ १०६॥
भक्तैकशान्तहृदयो भक्तस्तुत्यः स्तुतिप्रियः ।
भक्ताङ्गलेहनोद्धूतक्रोधपुङ्जः प्रशान्तधीः ॥ १०७॥
स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायकः ।
गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः ॥ १०८॥
धर्मात्मा सर्वकर्मात्मा विशेषात्माऽऽश्रमप्रभुः ।
संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ॥ १०९॥
आचारात्मा सदाचारः ॥॥॥॥॥॥॥॥॥ चोन्तिनुएद्
मन्वन्तरलीला
॥॥॥॥॥॥॥॥॥॥मन्वन्तरविभावनः ।
स्मृत्याऽशेषाशुभहरो गजेन्द्रस्मृतिकारणम् ॥ ११०॥
जातिस्मरणहेत्वैकपूजाभक्तिस्वरूपदः ।
यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रयः ॥ १११॥
सत्यसेनो दुष्टघाती हरिर्गजविमोचकः ।
वैकुण्ठो लोककर्ता च अजितोऽमृतकारणम् ॥ ११२॥
उरुक्रमो भूमिहर्ता सार्वभौमो बलिप्रियः ।
विभुः सर्वहितैकात्मा विष्वक्सेनः शिवप्रियः ॥ ११३॥
धर्मसेतुर्लोकधृतिः सुधामान्तरपालकः ।
उपहर्ता योगपतिर्बृहद्भानुः क्रियापतिः ॥ ११४॥
चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधकः ।
लक्ष्मीभोगैकनिलयो देवमन्त्रप्रदायकः ॥ ११५॥
दैत्यव्यामोहकः साक्षाद्गरुडस्कन्धसंश्रयः ।
लीलामन्दरधारी च दैत्यवासुकिपूजितः ॥ ११६॥
समुद्रोन्मथनायत्तोऽविघ्नकर्ता स्ववाक्यकृत् ।
आदिकूर्मः पवित्रात्मा मन्दराघर्षणोत्सुकः ॥ ११७॥
श्वासैजदब्धिवार्वीचिः कल्पान्तावधिकार्यकृत् ।
चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धनः ॥ ११८॥
धन्वन्तरिः सुधाहस्तो यज्ञभोक्ताऽऽर्तिनाशनः ।
आयुर्वेदप्रणेता च देवदैत्याखिलार्चितः ॥ ११९॥
बुद्धिव्यामोहको देवकार्यसाधनतत्परः ।
स्त्रीरूपो मायया वक्ता दैत्यान्तःकरणप्रियः ॥ १२०॥
पायितामृतदेवांशो युद्धहेतुस्मृतिप्रदः ।
सुमालिमालिवधकृन्माल्यवत्प्राणहारकः ॥ १२१॥
कालनेमिशिरश्छेदी दैत्ययज्ञविनाशकः ।
इन्द्रसामर्थ्यदाता च दैत्यशेषस्थितिप्रियः ॥ १२२॥
शिवव्यामोहको मायी भृगुमन्त्रस्वशक्तिदः ।
बलिजीवनकर्ता च स्वर्गहेतुर्व्रतार्चितः ॥ १२३॥
अदित्यानन्दकर्ता च कश्यपादितिसम्भवः ।
उपेन्द्र इन्द्रावरजो वामनब्रह्मरूपधृक् ॥ १२४॥
ब्रह्मादिसेवितवपुर्यज्ञपावनतत्परः ।
याच्ञोपदेशकर्ता च ज्ञापिताशेषसंस्थितिः ॥ १२५॥
सत्यार्थप्रेरकः सर्वहर्ता गर्वविनाशकः ।
त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्तिः पृथुश्रवाः ॥ १२६॥
पाशबद्धबलिः सर्वदैत्यपक्षोपमर्दकः ।
सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः ॥ १२७॥
कर्मसम्पूर्तिकर्ता च स्वर्गसंस्थापितामरः ।
ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रयः ॥ १२८॥
सत्यव्रतप्रियो गोप्ता मत्स्यमूर्तिधृतश्रुतिः ।
श‍ऋङ्गबद्धधृतक्षोणिः सर्वार्थज्ञापको गुरुः ॥ १२९॥
ईशानुकथालीला
ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः ।
सोमवंशोद्भवकरो मनुपुत्रगतिप्रदः ॥ १३०॥
अम्बरीषप्रियः साधुर्दुर्वासोगर्वनाशकः ।
ब्रह्मशापोपसंहर्ता भक्तकीर्तिविवर्धनः ॥ १३१॥
इक्ष्वाकुवंशजनकः सगराद्यखिलार्थदः ।
भगीरथमहायत्नो गङ्गाधौताङ्घ्रिपङ्कजः ॥ १३२॥
ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्तिदः ।
खट्वाङ्गमोक्षहेतुश्च रघुवंशविवर्धनः ॥ १३३॥
रघुनाथो रामचन्द्रो रामभद्रो रघुप्रियः ।
अनन्तकीर्तिः पुण्यात्मा पुण्यश्लोकैकभास्करः ॥ १३४॥
कोशलेन्द्रः प्रमाणात्मा सेव्यो दशरथात्मजः ।
लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः ॥ १३५॥
विश्वामित्रप्रियो दान्तस्ताडकावधमोक्षदः ।
वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा ॥ १३६॥
वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवः ।
सीतापतिर्भृगुपतिगर्वपर्वतनाशकः ॥ १३७॥
अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् ।
कैकेयीवाक्यकर्ता च पितृवाक्परिपालकः ॥ १३८॥
वैराग्यबोधकोऽनन्यसात्त्विकस्थानबोधकः ।
अहल्यादुःखहारी च गुहस्वामी सलक्ष्मणः ॥ १३९॥
चित्रकूटप्रियस्थानो दण्डकारण्यपावनः ।
शरभङ्गसुतीक्ष्णादिपूजितोऽगस्त्यभाग्यभूः ॥ १४०॥
ऋषिसम्प्रार्थितकृतिर्विराधवधपण्डितः ।
छिन्नशूर्पणखानासः खरदूषणघातकः ॥ १४१॥
एकबाणहतानेकसहस्रबलराक्षसः ।
मारीचघाती नियतसीतासम्बन्धशोभितः ॥ १४२॥
सीतावियोगनाट्यश्च जटायुर्वधमोक्षदः ।
शबरीपूजितो भक्तहनुमत्प्रमुखावृतः ॥ १४३॥
दुन्दुभ्यस्थिप्रहरणः सप्ततालविभेदनः ।
सुग्रीवराज्यदो वालिघाती सागरशोषणः ॥ १४४॥
सेतुबन्धनकर्ता च विभीषणहितप्रदः ।
रावणादिशिरश्छेदी राक्षसाघौघनाशकः ॥ १४५॥
सीताऽभयप्रदाता च पुष्पकागमनोत्सुकः ।
अयोध्यापतिरत्यन्तसर्वलोकसुखप्रदः ॥ १४६॥
मथुरापुरनिर्माता सुकृतज्ञस्वरूपदः ।
जनकज्ञानगम्यश्च ऐलान्तप्रकटश्रुतिः ॥ १४७॥
हैहयान्तकरो रामो दुष्टक्षत्रविनाशकः ।
सोमवंशहितैकात्मा यदुवंशविवर्धनः ॥ १४८॥
निरोधलीला
परब्रह्मावतरणः केशवः क्लेशनाशनः ।
भूमिभारावतरणो भक्तार्थाखिलमानसः ॥ १४९॥
सर्वभक्तनिरोधात्मा लीलानन्तनिरोधकृत् ।
भूमिष्ठपरमानन्दो देवकीशुद्धिकारणम् ॥ १५०॥
वसुदेवज्ञाननिष्ठसमजीवनिवारकः ।
सर्ववैराग्यकरणस्वलीलाधारशोधकः ॥ १५१॥
मायाज्ञापनकर्ता च शेषसम्भारसम्भृतिः ।
भक्तक्लेशपरिज्ञाता तन्निवारणतत्परः ॥ १५२॥
आविष्टवसुदेवांशो देवकीगर्भभूषणम् ।
पूर्णतेजोमयः पूर्णः कंसाधृष्यप्रतापवान् ॥ १५३॥
विवेकज्ञानदाता च ब्रह्माद्यखिलसंस्तुतः ।
सत्यो जगत्कल्पतरुर्नानारूपविमोहनः ॥ १५४॥
भक्तिमार्गप्रतिष्ठाता विद्वन्मोहप्रवर्तकः ।
मूलकालगुणद्रष्टा नयनानन्दभाजनम् ॥ १५५॥
वसुदेवसुखाब्धिश्च देवकीनयनामृतम् ।
पितृमातृस्तुतः पूर्वसर्ववृत्तान्तबोधकः ॥ १५६॥
गोकुलागतिलीलाप्तवसुदेवकरस्थितिः ।
सर्वेशत्वप्रकटनो मायाव्यत्ययकारकः ॥ १५७॥
ज्ञानमोहितदुष्टेशः प्रपञ्चास्मृतिकारणम् ।
यशोदानन्दनो नन्दभाग्यभूगोकुलोत्सवः ॥ १५८॥
नन्दप्रियो नन्दसूनुर्यशोदायाः स्तनन्धयः ।
पूतनासुपयःपाता मुग्धभावातिसुन्दरः ॥ १५९॥
सुन्दरीहृदयानन्दो गोपीमन्त्राभिमन्त्रितः ।
गोपालाश्चर्यरसकृत् शकटासुरखण्डनः ॥ १६०॥
नन्दव्रजजनानन्दी नन्दभाग्यमहोदयः ।
तृणावर्तवधोत्साहो यशोदाज्ञानविग्रहः ॥ १६१॥
बलभद्रप्रियः कृष्णः सङ्कर्षणसहायवान् ।
रामानुजो वासुदेवो गोष्ठाङ्गणगतिप्रियः ॥ १६२॥
किङ्किणीरवभावज्ञो वत्सपुच्छावलम्बनः ।
नवनीतप्रियो गोपीमोहसंसारनाशकः ॥ १६३॥
गोपबालकभावज्ञश्चौर्यविद्याविशारदः ।
मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकः ॥ १६४॥
धराद्रोणप्रीतिकर्ता दधिभाण्डविभेदनः ।
दामोदरो भक्तवश्यो यमलार्जुनभञ्जनः ॥ १६५॥
बृहद्वनमहाश्चर्यो वृन्दावनगतिप्रियः ।
वत्सघाती बालकेलिर्बकासुरनिषूदनः ॥ १६६॥
अरण्यभोक्ताऽप्यथवा बाललीलापरायणः ।
प्रोत्साहजनकश्चैवमघासुरनिषूदनः ॥ १६७॥
व्यालमोक्षप्रदः पुष्टो ब्रह्ममोहप्रवर्धनः ।
अनन्तमूर्तिः सर्वात्मा जङ्गमस्थावराकृतिः ॥ १६८॥
ब्रह्ममोहनकर्ता च स्तुत्य आत्मा सदाप्रियः ।
पौगण्डलीलाभिरतिर्गोचारणपरायणः ॥ १६९॥
वृन्दावनलतागुल्मवृक्षरूपनिरूपकः ।
नादब्रह्मप्रकटनो वयःप्रतिकृतिस्वनः ॥ १७०॥
बर्हिनृत्यानुकरणो गोपालानुकृतिस्वनः ।
सदाचारप्रतिष्ठाता बलश्रमनिराकृतिः ॥ १७१॥
तरुमूलकृताशेषतल्पशायी सखिस्तुतः ।
गोपालसेवितपदः श्रीलालितपदाम्बुजः ॥ १७२॥
गोपसम्प्रार्थितफलदाननाशितधेनुकः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १७३॥
दृष्टिसङ्जीविताशेषगोपगोगोपिकाप्रियः ।
लीलासम्पीतदावाग्निः प्रलम्बवधपण्डितः ॥ १७४॥
दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपः ।
वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधकः ॥ १७५॥
गोपीरत्नस्तुताशेषवेणुवाद्यविशारदः ।
कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनः ॥ १७६॥
सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिपः ।
गोपक्षुच्छान्तिसंव्याजविप्रभार्याप्रसादकृत् ॥ १७७॥
हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकः ।
शैलरूपकृताशेषरसभोगसुखावहः ॥ १७८॥
लीलागोवर्धनोद्धारपालितस्वव्रजप्रियः ।
गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकः ॥ १७९॥
इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवान् ।
व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकः ॥ १८०॥
नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकः ।
वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदः ॥ १८१॥
सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमः ।
गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदः ॥ १८२॥
कृष्णभावव्याप्तविश्वगोपीभावितवेषधृक् ।
राधाविशेषसम्भोगप्राप्तदोषनिवारकः ॥ १८३॥
परमप्रीतिसङ्गीतसर्वाद्भुतमहागुणः ।
मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवः ॥ १८४॥
गोपिकाव्याप्तसर्वाङ्गः स्त्रीसम्भाषाविशारदः ।
रासोत्सवमहासौख्यगोपीसम्भोगसागरः ॥ १८५॥
जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजितः ।
शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनः ॥ १८६॥
सुदर्शनमहासर्पग्रस्तनन्दविमोचकः ।
गीतमोहितगोपीधृक्षङ्खचूडविनाशकः ॥ १८७॥
गुणसङ्गीतसन्तुष्टिर्गोपीसंसारविस्मृतिः ।
अरिष्टमथनो दैत्यबुद्धिव्यामोहकारकः ॥ १८८॥
केशिघाती नारदेष्टो व्योमासुरविनाशकः ।
अक्रूरभक्तिसंराद्धपादरेणुमहानिधिः ॥ १८९॥
रथावरोहशुद्धात्मा गोपीमानसहारकः ।
ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुतः ॥ १९०॥
मथुरागमनोत्साहो मथुराभाग्यभाजनम् ।
मथुरानगरीशोभादर्शनोत्सुकमानसः ॥ १९१॥
दुष्टरञ्जकघाती च वायकार्चितविग्रहः ।
वस्त्रमालासुशोभाङ्गः कुब्जालेपनभूषितः ॥ १९२॥
कुब्जासुरूपकर्ता च कुब्जारतिवरप्रदः ।
प्रसादरूपसन्तुष्टहरकोदण्डखण्डनः ॥ १९३॥
शकलाहतकंसाप्तधनूरक्षकसैनिकः ।
जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकः ॥ १९४॥
मथुरामल्ल ओजस्वी मल्लयुद्धविशारदः ।
सद्यः कुवलयापीडघाती चाणूरमर्दनः ॥ १९५॥
लीलाहतमहामल्लः शलतोशलघातकः ।
कंसान्तको जितामित्रो वसुदेवविमोचकः ॥ १९६॥
ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्मयः ।
उग्रसेनप्रतिष्ठाता यादवाधिविनाशकः ॥ १९७॥
नन्दादिसान्त्वनकरो ब्रह्मचर्यव्रते स्थितः ।
गुरुशुश्रूषणपरो विद्यापारमितेश्वरः ॥ १९८॥
सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
गोकुलाश्वासनपरो यशोदानन्दपोषकः ॥ १९९॥
गोपिकाविरहव्याजमनोगतिरतिप्रदः ।
समोद्धवभ्रमरवाक् गोपिकामोहनाशकः ॥ २००॥
कुब्जारतिप्रदोऽक्रूरपवित्रीकृतभूगृहः ।
पृथादुःखप्रणेता च पाण्डवानां सुखप्रदः ॥ २०१॥
दशमस्कन्धोत्तरार्धनामानि निरोधलीला
जरासन्धसमानीतसैन्यघाती विचारकः ।
यवनव्याप्तमथुराजनदत्तकुशस्थलिः ॥ २०२॥
द्वारकाद्भुतनिर्माणविस्मापितसुरासुरः ।
मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवः ॥ २०३॥
यवनव्याप्तमथुरानिर्गमानन्दविग्रहः ।
मुचुकुन्दमहाबोधयवनप्राणदर्पहा ॥ २०४॥
मुचुकुन्दस्तुताशेषगुणकर्ममहोदयः ।
फलप्रदानसन्तुष्टिर्जन्मान्तरितमोक्षदः ॥ २०५॥
शिवब्राह्मणवाक्याप्तजयभीतिविभावनः ।
प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवः ॥ २०६॥
रुक्मिणीरमणः कामपिता प्रद्युम्नभावनः ।
स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतिः ॥ २०७॥
सत्यभामाप्राणपतिः कालिन्दीरतिवर्धनः ।
मित्रविन्दापतिः सत्यापतिर्वृषनिषूदनः ॥ २०८॥
भद्रावाञ्छितभर्ता च लक्ष्मणावरणक्षमः ।
इन्द्रादिप्रार्थितवधनरकासुरसूदनः ॥ २०९॥
मुरारिः पीठहन्ता च ताम्रादिप्राणहारकः ।
षोडशस्त्रीसहस्रेशः छत्रकुण्डलदानकृत् ॥ २१०॥
पारिजातापहरणो देवेन्द्रमदनाशकः ।
रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदः ॥ २११॥
रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकः ।
पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकः ॥ २१२॥
शम्बरान्तकसत्पुत्रविवाहहतरुक्मिकः ।
उषापहृतपौत्रश्रीर्बाणबाहुनिवारकः ॥ २१३॥
शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणः ।
शङ्करप्रतियोद्धा च द्वन्द्वयुद्धविशारदः ॥ २१४॥
नृगपापप्रभेत्ता च ब्रह्मस्वगुणदोषदृक् ।
विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकः ॥ २१५॥
बलभद्राहितगुणो गोकुलप्रीतिदायकः ।
गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रदः ॥ २१६॥
वाक्यातिगामियमुनाहलाकर्षणवैभवः ।
पौण्ड्रकत्याजितस्पर्धः काशीराजविभेदनः ॥ २१७॥
काशीनिदाहकरणः शिवभस्मप्रदायकः ।
द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ॥ २१८॥
लाङ्गलाकृष्टनगरीसंविग्नाखिलनागरः ।
प्रपन्नाभयदः साम्बप्राप्तसन्मानभाजनम् ॥ २१९॥
नारदान्विष्टचरणो भक्तविक्षेपनाशकः ।
सदाचारैकनिलयः सुधर्माध्यासितासनः ॥ २२०॥
जरासन्धावरुद्धेन विज्ञापितनिजक्लमः ।
मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणः ॥ २२१॥
राजसूयादिमखकृत् सम्प्रार्थितसहायकृत् ।
इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतिः ॥ २२२॥
जरासन्धवधव्याजमोचिताशेषभूमिपः ।
सन्मार्गबोधको यज्ञक्षितिवारणतत्परः ॥ २२३॥
शिशुपालहतिव्याजजयशापविमोचकः ।
दुर्योधनाभिमानाब्धिशोषबाणवृकोदरः॥ २२४॥
महादेववरप्राप्तपुरशाल्वविनाशकः ।
दन्तवक्त्रवधव्याजविजयाघौघनाशकः ॥ २२५॥
विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रहः ।
उपधर्मविलिप्ताङ्गसूतघाती वरप्रदः ॥ २२६॥
बल्वलप्राणहरणपालितर्षिश्रुतिक्रियः ।
सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदः ॥ २२७॥
ज्ञानक्रियाविभेदेष्टफलसाधनतत्परः ।
सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधकः ॥ २२८॥
सुदामारङ्कभार्यार्थभूम्यानीतेन्द्रवैभवः ।
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनः ॥ २२९॥
नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियः ।
ऋषिमार्गप्रतिष्ठाता वसुदेवमखक्रियः ॥ २३०॥
वसुदेवज्ञानदाता देवकीपुत्रदायकः ।
अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपदः ॥ २३१॥
श्रुतदेवेष्टदाता च सर्वश्रुतिनिरूपितः ।
महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णयः ॥ २३२॥
वृकग्रस्तशिवत्राता नानावाक्यविशारदः ।
नरगर्वविनाशार्थहृतब्राह्मणबालकः ॥ २३३॥
लोकालोकपरस्थानस्थितबालकदायकः ।
द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनः ॥ २३४॥
मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावितः ।
मुक्तिलीला
मुक्तिलीलाविहरणो मौशलव्याजसंहृतिः ॥ २३५॥
श्रीभागवतधर्मादिबोधको भक्तिनीतिकृत् ।
उद्धवज्ञानदाता च पञ्चविंशतिधा गुरुः ॥ २३६॥
आचारभक्तिमुक्त्यादिवक्ता शब्दोद्भवस्थितिः ।
हंसो धर्मप्रवक्ता च सनकाद्युपदेशकृत् ॥ २३७॥
भक्तिसाधनवक्ता च योगसिद्धिप्रदायकः ।
नानाविभूतिवक्ता च शुद्धधर्मावबोधकः ॥ २३८॥
मार्गत्रयविभेदात्मा नानाशङ्कानिवारकः ।
भिक्षुगीताप्रवक्ता च शुद्धसाङ्ख्यप्रवर्तकः ॥ २३९॥
मनोगुणविशेषात्मा ज्ञापकोक्तपुरूरवाः ।
पूजाविधिप्रवक्ता च सर्वसिद्धान्तबोधकः ॥ २४०॥
लघुस्वमार्गवक्ता च स्वस्थानगतिबोधकः ।
यादवाङ्गोपसंहर्ता सर्वाश्चर्यगतिक्रियः ॥ २४१॥
आश्रयलीला
कालधर्मविभेदार्थवर्णनाशनतत्परः ।
बुद्धो गुप्तार्थवक्ता च नानाशास्त्रविधायकः ॥ २४२॥
नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकः ।
आश्रयैकगतिज्ञाता कल्किः कलिमलापहः ॥ २४३॥
शास्त्रवैराग्यसम्बोधो नानाप्रलयबोधकः ।
विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकः ॥ २४४॥
शुकेष्टगतिरूपात्मा परीक्षिद्देहमोक्षदः ।
शब्दरूपो नादरूपो वेदरूपो विभेदनः ॥ २४५॥
व्यासः शाखाप्रवक्ता च पुराणार्थप्रवर्तकः ।
मार्कण्डेयप्रसन्नात्मा वटपत्रपुटेशयः ॥ २४६॥
मायाव्याप्तमहामोहदुःखशान्तिप्रवर्तकः ।
महादेवस्वरूपश्च भक्तिदाता कृपानिधिः ॥ २४७॥
आदित्यान्तर्गतः कालः द्वादशात्मा सुपूजितः ।
श्रीभागवतरूपश्च सर्वार्थफलदायकः ॥ २४८॥
इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् ।
पञ्चसप्ततिविस्तीर्णं पुराणान्तरभाषितम् ॥ २४९॥
य एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहितः ।
जपेदर्थाहितमतिः स गोविन्दपदं लभेत् ॥ २५०॥
सर्वधर्मविनिर्मुक्तः सर्वसाधनवर्जितः ।
एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ॥ २५१॥
हर्यावेशितचित्तेन श्रीभागवतसागरात् ।
समुद्धृतानि नामानि चिन्तामणिनिभानि हि ॥ २५२॥
कण्ठस्थितान्यर्थदीप्त्या बाधन्तेऽज्ञानजं तमः ।
भक्तिं श्रीकृष्णदेवस्य साधयन्ति विनिश्चितम् ॥ २५३॥
किम्बहूक्तेन भगवान् नामभिः स्तुतषड्गुणः ।
आत्मभावं नयत्याशु भक्तिं च कुरुते दृढाम् ॥ २५४॥
यः कृष्णभक्तिमिह वाञ्छति साधनौघैर्-
नामानि भासुरयशांसि जपेत्स नित्यम् ।
तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्रम्-
आत्मार्पणं समधिगच्छति भावतुष्टः ॥ २५५॥
श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुग्-
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत
तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ २५६॥
॥ इति श्रीभागवतसारसमुच्चये वैश्वानरोक्तं
श्रीवल्लभाचार्यविरचितं
श्रीपुरुषोत्तमसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Share
Now Playing