स्वर्णाकर्षण भैरव मंत्रमय स्तोत्र धन वर्षा,बाधा निवारण हेतु - Swarnakarshan Bhairav Mantramay Stotra For Money & Success

स्वर्णाकर्षण भैरव मंत्रमय स्तोत्र धन वर्षा,बाधा निवारण हेतु - Swarnakarshan Bhairav Mantramay Stotra For Money & Success

ब्रह्मा यस्य ऋषि स्वयं निगदितश्छन्दो मतं त्रैष्टुभं,
      स्वर्णाकर्षण-भैरवो हरिहरब्रह्मात्मको देवता ।
ह्रीं बीजं भृगुशक्तिरित्यभिहितं तस्यैव सूत्रात्मनः,
      स्तोत्रं ध्यान पुरस्सरं मनुमयं ब्रूमो वयं प्रत्यहम् ॥ १॥
मन्दारद्रुममूलपूजितमहामाणिक्य-सिंहासने, संविष्टो
      दरभिन्न चम्पकरुचा देव्या समालिङ्गितः ।
भक्तेभ्यो वररत्न पात्र भरितं स्वर्णं ददानोऽनिशं,
      स्वर्णाकर्षण-भैरवो विजयते स्वर्गापवर्गप्रदः ॥ २॥
ॐ ऐं क्लां क्लीं क्लूमिति व्याहरन् यो भक्तः स्वर्णाकर्षणम् ।
कारुण्याब्धिः कल्पमूलाधिवासः स्वर्णाकर्षो भैरवो मेऽस्तु भूत्यै ॥ ३॥
ह्रां ह्रीं हूं सः सन्ततं जापकानां
      वर्षन्तं तं स्वर्णवृष्टिं समग्राम् ।
अन्तः स्वान्तं सूर्यकोटिप्रकाशं
      स्वर्णाकर्षं भैरवं भावयामि ॥ ४॥
मरकतमणिपात्रे सम्भृतं स्वर्णपूर्णं
      कृपणतरजनेभ्यस्तारतः सम्प्रदातुः ।
कुरु हृदय सपर्यां सेवमानाय नित्यं
      सुरवरमनुजेन्द्र स्यापदुद्धारणाय ॥ ५॥
नमोऽजामलबद्धाय ब्रह्मसूत्राधिवाससे ।
स्वर्णाकर्षण-शीलाय साधकानां कृतात्मने ॥ ६॥
लोकेश्वराद्यर्चित-पादुकाय दारिद्र्यनिर्मूलनकारणाय ।
स्वर्णादि दानकरणोद्यत भैरवाय कारुण्यवारान्निधये नमस्ते ॥ ७॥
दीनानाथ विपन्नरक्षणपरै राज्यप्रतीक्षापरैः
      सिद्धैः साध्यगणैः सुरासुरगणैर्भुक्तिप्रयुक्तात्मभिः ।
मूले कल्पतरोर्महामणिमये मार्तण्ड-तेजोजुषे
      स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम् ॥ ८॥
स्वर्णाकर्षि-स्वर्णदेव्याश्रिताय स्वर्णारूढोदार-सिंहासनाय ।
कुर्मो नित्यं स्वर्णदात्रे नमस्यां दारिद्र्यद्वेषि श्रीमते भैरवाय ॥ ९॥
स्वर्णप्रदानाध्वर-दीक्षिताय स्वतेजसाक्रान्त-जगत्त्रयाय ।
औदार्य-सम्पत्-सदनाय नित्यं, ॐ श्रीमहाभैरव ! ते नमोऽस्तु ॥ १०॥
चिन्तामणिस्थित-महानिधि-कामधेनु-
      मन्दारमूल-मणिमण्डप-मध्यगाय ।
स्वर्ण-प्रदान-निरताय सदा सपर्यां,
      कुर्मो वयं त्रिकरणैः परभैरवाय ॥ ११॥
मूले कल्पतरोः प्रभा-परिमले भद्रासने संस्थितो,
      हस्ताम्भोरुह-रत्नपात्रभरितैः कार्तस्वरैर्भास्वरैः ।
निर्मूलीकृत-दुर्गतो विरचयन् विद्युद्दिनेशद्युतिः,
      स्वर्णाकर्षण-भैरवो भवतु नो दारिद्र्य-विद्वेषणः ॥ १२॥
दुग्धाद्याराध्य स्वर्णाकृति कनकमये द्वीपवर्ये सुधाब्धौ,
      कापित्थे तत्र रम्ये मणिमयविलसद् भित्ति-पाश्चात्य भागे ।
यद्वत्तं सर्ववाञ्छाधिकवसुनिचयं मन्त्रिणां संसरन्तं,
      ध्यायेच्छ्रीभैरवं तं सकल-सुवसुदं दुःखदारिद्र्य शत्रुम् ॥ १३॥
सुवर्णमण्डपे ध्यायेत् सुवर्णरुचिभिर्युतम् ।
महात्मानं सुखासीनं प्रसन्नवरदायकम् ॥ १४॥
सर्वरत्न-विभूषाढ्यं सुरासुर-नमस्कृतम् ।
मणिहारक-सम्पूर्तिं ददतं स्वकरैः सदा ॥ १५॥
सुवर्णवृष्टिरूपैश्व धनसारैर्निरन्तरम् ।
दारिद्र्य-नाम-संहारं-कुण्डलोल्लास-संयुतम् ॥ १६॥
एवं ध्यात्वा महात्मानं महादारिद्र्य-नाशनम् ।
स्तौमि मन्दार-मूलस्थं ब्रह्मसूत्राधिवासनम् ॥ १७॥
स्वर्णसिद्धिं करैरेव ददानं स्वर्णभैरवम् ।
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ १८॥
स्वर्णादिमध्यमणिमण्डप कल्पवृक्षे,
      पीतारुणाम्बुजनिविष्टसुवर्णवर्णम् ।
माणिक्यपात्रमभयं दधतं च दोर्भ्यां,
      स्वर्णादिकर्षणविनोदनिधिं नमामि ॥ १९॥
सुवर्णकर्षकं नित्यं ऋणहर्तारमीश्वरम् ।
भजतो न ऋणं तस्य धनं शीघ्रं प्रजायते ॥ २०॥
पीतवर्णं चतुर्बाहुं त्रिनेत्रं पीतवाससम् ।
अक्षद्वयं स्वर्णमयं तडित्पूरित-पात्रकम् ॥ २१॥
अतितीक्ष्ण-महाशूलं तोमरं चामरद्वयम् ।
सततं चिन्तयेद् यस्तु भैरवं स्वर्णसिद्धिदम् ॥ २२॥
स्वर्णाकर्षणभैरव-मन्त्राढ्यं स्तोत्रमुत्तमम् ।
पठतां निधिसिद्धिश्च स्वर्णसिद्धिश्च जायते ॥ २३॥
अनेन स्तवराजेन नित्यं ब्रह्महरीश्वराः ।
स्वर्णाकर्षणनामानि स्तुवन्ति जगदीश्वराः ॥ २४॥
फलश्रुतिः ।
यः पठेत् परमं स्तोत्रमिदं नित्यं नरोत्तमः ।
स मर्त्यो मन्दभाग्योऽपि भैरवस्य प्रसादतः ॥ २५॥
इच्छातोऽप्यधिकां लक्ष्मीं लभते नात्र संशयः ।
रससिद्धिर्भवेच्छीघ्रं निधीनामधिपो भवेत् ॥ २६॥
सर्वान् कामानवाप्नोति दैवतैरपि दुर्लभम् ।
एतज्जपैर्महालक्ष्मीश्चञ्चलाप्यचला भवेत् ॥ २७॥
रत्नान्यश्वान् गजान् भूतीर्लभते शीघ्रमेव हि ।
स्वर्णराशिमवाप्नोति चाक्षयां नात्र संशयः ॥ २८॥
धेनुं चिन्तामणिं कल्पद्रुमं शीघ्रमवाप्नुयात् ।
नित्यमष्टोत्तरशतं यो जपेत् स्तोत्रमुत्तमम् ॥ २९॥
मण्डलार्धाच्च प्रागेव स्वर्णराशिमनुत्तमम् ।
सततं ध्यायते तस्मै दर्शयत्येव न संशयः ॥ ३०॥
नित्यं च त्रिपुराभक्तैः स्वर्णाकर्षणभैरवः ।
यत्नेन सर्वदोपास्यः सर्वकामप्रदायकः ॥ ३१॥
इति श्रीत्रिपुरासिद्धान्ते दक्षिणामूर्तिप्रोक्तं
              स्वर्णाकर्षणभैरवस्तोत्रं समाप्तम् ।

📚 Spiritual Puzzle Books

21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 21 Ganesha Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 32 Durga Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana) 25 Lalita Tripura Sundari Names Word Search Puzzle Book – English & Sanskrit (108 Days Sadhana)
Now Playing